SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ २१५ देव-गुरु-धर्मशुद्धिद्वारम् [३१९] न्यस्ता मुक्तिपथस्य वाहकतया श्रीवीर ! ये प्राक् त्वया, लुण्टाकास्त्वदृतेऽभवन् बहुतरास्त्वच्छासने ते कलौ । बिभ्राणा यतिनाम तत् तनुधियां मुष्णन्ति पुण्यश्रियः, पूत्कुमः किमराजके ह्यपि तलारक्षा न किं दस्यवः ? ||१२.६।। धनवि.-अथ गुरुपरीक्षायां लोकविप्रतारककुगुरुस्वरूपं भृशं प्रायः स्थाने स्थाने पश्यन्नतीव व्याकुलितचेता उपदेष्टा पूत्कारपूर्वकं श्रीवीरभगवतः पुरस्तादित्याह 'न्यस्ता' इति, हे श्रीवीर ! - हे श्रीवर्द्धमानस्वामिन् ! प्राक् सुधर्मादयो, ये गुरवो मुक्तिपथस्य-मोक्षमार्गस्य वाहकतया-प्रवर्तकतया त्वया न्यस्ता:-स्थापिताः सन्ति, तत्परम्परायाता अप्युपचारात्, त एवोच्यन्ते, अतस्तत्परम्परानामग्राहकाः शिथिलाचारा बहुतरा-अतिशयेन बहवो गुरवः, प्रायेणेति शेषः, कलौ-कलिकाले त्वच्छासने-जिनमते त्वदृते-त्वां विना, लुण्टाका-मार्गग्राहकतस्करा, अभवन्-आसन्; यद्-यस्मात् कारणाद यतिनाम-यतिरित्यभिधानं बिभ्राणा-दधानास्ते गुरवः, तनुधियाम् अल्पबुद्धीनां जनानां पुण्यश्रियः-सुकृतलक्ष्मीः मुष्णन्ति-चौर्येणापहरन्ति, अत्र कुगुरवो मन्दबुद्धीनां पुण्यलक्ष्मीमोषकाः स्वार्थसहितकुत्सितोपदेशकत्वोत्सूत्रभाषकत्वोत्सूत्रप्रवर्तकत्वादिना, यद् वा स्वयंकृति-कर्मा-ऽऽदिकारकत्वेन, यत उक्तम्[आव.नियुक्तौ] [३३९] "पासत्थाइ वंदमाणस्स नेव कित्ती न निज्जरा होइ । कायकिलेसो एमेव कुणइ तह कम्मबंधं च ।। [ ]|| इति, भावः ततः कारणात् किं पुत्कुर्मो-वयं किं पूत्कारं कुर्मः ?, हि यतः कारणाद् अराजके राजरहिते नगरे, तलारक्षा अपि-राजनियुक्तनगरोपद्रवनिवारकाः कोट्टपाला अपि किं दस्यवः ? • चौरा न भवन्ति, अपि तु भवन्त्येव ।।१२.६ ।। रत्न.-अथ दृष्टान्तेन कुगुरून् ज्ञापयति - न्यस्ता मुक्तिपथस्य..इति. व्याख्या-हे श्रीवीर ! प्राक्-पूर्वं त्वया, ये सुधर्मादयो १. पार्श्वस्थादीन् वन्दमानस्य नैव कीर्तिः न निर्जरा भवति । कायक्लेश एवमेव करोति तथा कर्मबन्धं च । सो, बंधो कम्मस्स आणाए' [संबोधप्रकरण-३५५]
SR No.022283
Book TitleAdhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2016
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy