SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ २१४ श्रीअध्यात्मकल्पद्रुमे [३१७] फलाद् वृथा स्युः कुगुरूपदेशतः, कृता हि धर्मार्थमपीह सूद्यमाः । तद्-दृष्टिरागं परिमुच्य भद्र ! हे, गुरुं विशुद्धं भज चेद्धितार्थ्यसि ।।१२.५।। धनवि.-अथ कुगुरुप्ररूपिता धर्मा अपि निष्फलाः स्युरित्याह - 'फलाद् वृथा' इति, हि यतः कारणाद्, इह-संसारे, कुगुरूपदेशतः-अगीतार्थपार्श्वस्थ-मिथ्यादृष्टिगुरुवचनतो धर्मार्थमपि-धर्मप्रयोजनमुद्दिश्यापि सूधमा:-सुष्ठुअतिशयेनोद्यमाः-प्रयत्नाः कृता-विहिताः फलात्-स्वर्गापवर्गादिप्राप्तिफलमाश्रित्य, वृथा-मिथ्या स्यु:-भवन्ति निष्फलाः स्युरित्यर्थः, यदुक्त गच्छाचारादौ -- [३१८] "अगीयत्थस्स वयणेणं, अमीयं पि न घुटए । - गीयत्थस्स उ वयणेणं, विसं हालाहलं पिए" ।। [४६] ।। इति हे भद्र ! - तीव्रकषायरहित ! तत्-तस्मात् कारणाद्, दृष्टिराग-स्वस्वदर्शनदृष्टिरागं परिमुच्य-परित्यज्य, विशुद्धं गुरुं भज-श्रय, चेद्-यदि त्वं हितार्थीमोक्षकामोऽसीति ।।१२.५।। रत्न.-अथ कुगुरूपदिष्टा धर्मा न फलदायका भवन्तीत्याह-फलाद् वृथा स्युः - इति, व्याख्या-हि यस्मात् कारणाद्, इह-जिनप्रवचने, कुगुरूणामुपदेशतो धर्मार्थ-धर्माय कृता अपि सूद्यमाः-शोभनोद्योगास्तपः-संयमादिकाः, फलात्-कार्याद् वृथा स्युः-फलप्रदा न भवन्ति, अथवा फलमुद्दिश्येति व्याख्येयं, तत्कारणाद्धे भद्र ! - हे सज्जन! त्वं दृष्टिरागं परिमुच्य, विशुद्धं, स्वयमवद्यमुक्तम्, अन्येषामवद्येभ्यो निवर्तकं, निःस्पृहं च गुरुं भज-श्रय, चेद्-यदि हितार्थीहितेच्छुरसीति ।।१२.५।। १. अगीतस्य वचनेनामृतमपि न पिबेत् । गीतार्थस्य तु वचनेन हालाहलं विषं पिबेत् । २. यो मन्दकषायोऽस्ति, स एव भाविभद्रः स्यात्, स एव च संसारे वर्तमानोऽपि सज्जनः - जनैः समादरणीयो जायते - इति द्वयोः विवरणयोरद्भुताऽर्थघटना । ३. दृश्यतां-'अवद्यमुक्ते पथि चः प्रवर्त्तते, प्रवर्तयन्यजनं च निस्पृहः । स एव सेव्यः स्वहितैषिणा गुरुः, स्वयं तरंस्-तारयितुं क्षमः परम् । सिन्दूरप्रकर-१३]
SR No.022283
Book TitleAdhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2016
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy