SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ देव-गुरु-धर्मशुद्धिद्वारम् २१९ स्वजनः च पुनर्, गुरु:-विद्यापाठकः वा, पुनर्धनं-हिरण्यादि, एतानि सर्वाण्यपि कर्तुपदानीति यथार्ह वचनानि योज्यानि, चेति विशेषे, परं-किञ्चिद् उक्तान्यतरदपि हिताय न भवतीति, किंत्विति विशेषे, आदृता-अङ्गीकृताः सम्यक परीक्ष्य गृहीताः सन्तश्च-शोभनाः, ते देव-गुरु-धर्मा हिताय भवन्ति इति ।।१२.९।। [३२४] माता पिता स्वः स गुरुश्च तत्त्वात्, प्रबोध्य यो योजति शुद्धधर्मे । न तत्समोऽरिस क्षिपते भवाब्धौ, यो धर्मविघ्नादिकृतेश्च जीवम् ।।१२.१०।। धनवि.-अथ गुरु-देव-धर्मशुद्ध्यर्थं परमार्थतः सुगुरुस्वरूपं निर्दिशति - 'माता' इति, तत्त्वात्-परमार्थतः स जनो-माता-जननी, च पुनः-स जनः पिता-जनकः, च पुनः-स जनः स्व-स्वकीयः, च पुनः-स जनः सुगुरु:तत्त्वमार्गोपदेष्टा, भवतीति सर्वत्र योजनीयं, यो जनो जीवं-प्राणिनं शुद्धधर्मे योजति-योजयति; च पुनस्-तत्सम-तेन सदृशः, अरि-वैरी नास्ति, यो जनो धर्मविघ्नादिकृतेः-सुकृतान्तरायनिष्पादनात्, अत्र आदिपदादुन्मार्गप्रवृत्तिकृतेः, जीवंप्राणिनं भवाब्धौ-संसारसागरे क्षिपते-प्रक्षिपतीति ।।१२.१०।। रत्न.-अथ शुद्धधर्मे योजयितारं प्रशंसति - माता पिता..इति. व्याख्या-यो यं प्रति तत्त्वादिति-तत्त्वं समर्प्य, प्रबोध्यबोधिदानं दत्त्वा शुद्धधर्मेऽर्हदुक्ते योजति-योजयति, 'युजादेर्नवा' [सि.हे.३.४.१८] इति णिचो विकल्पेन प्राप्तौ णिचोऽभावे रूपमिति, स मातेव हितकर्तृत्वात् माता, स पितेव, स स्वो ज्ञातिः, स गुरुः, चेति पुनरर्थे, तथा तेन समःसदृशोऽरिः-रिपुर्नास्ति, यो धर्मे विघ्नादिकृतेः-अन्तरायादिकरणात्, जीवं प्रति भवाब्धौ-भवसमुद्रे क्षिपते-प्रक्षिपति, आदि-शब्देनोन्मार्गदर्शनतश्चेति, अथवा तत्त्वात्परमार्थतः स मातेव माता इत्याद्यपि व्याख्येयम् ।।१२.१०।।। १. 'च' इति पदं मूलत्वेन गृहीतम् । २. 'गम्यपः कर्माऽऽधार' इति सि.हे.२।२।७४-सूत्रात् - 'समर्प्य' इति गम्ये तत्त्वात् इति साधुः ।
SR No.022283
Book TitleAdhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2016
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy