SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ धर्मशुद्ध्युपदेशद्वारम् २०७ मन्त्र-प्रभा. इति., व्याख्या-दानं च अर्चनं चावश्यकं च पौषधश्च, ते आदौ यस्य तद् दानार्चनावश्यकपौषधादि, पुण्यमिह जिनशासनेऽल्पमपि शुद्धं-निर्मलं सन् महत् फलं-स्वर्गापवर्गप्राप्तिलक्षणं यस्य तत् स्यात्, कस्मात् ? - मन्त्रोजामुल्यादिः, प्रभा चन्द्र-दीपादीनां, रत्नं चन्द्रकान्तादि - रसायनं-पक्वं सुवर्णादिधातुभिः, एतान्यादौ येषां तानि, तेषां निदर्शनं-दृष्टान्तः, तस्मात्, यथैतान्यल्पान्यपि शुद्धानि सन्ति विषापहारादि-तमोनाश-निर्मलजलश्र(स्र)वणोद्योतकरण-रोगापहारादिमहाफलानि भवेयुः तथा दानादिधर्मोऽपीति, इतःअस्माद् अन्यथा पुण्यं महदप्यशुद्धं सदमहाफलं स्यादिति ।।११.१२ ।। [३१०] दीपो यथाऽल्पोऽपि तमांसि हन्ति, लवोऽपि रोगान् हरते सुधायाः | तृण्यां दहत्याशु कणोऽपि चाग्नेर् धर्मस्य लेशोऽप्यमलस्तथाऽहः ||११.१३।। धनवि.-अनन्तरमल्पस्यापि शुद्धधर्मस्य महाफलत्वमुक्तं, तदेव दृष्टान्तत्रयेण समर्थयन्नुपदिशति - 'दीपः' इति, यथाऽल्पोऽपि-गृहगततमसोऽपेक्षया स्तोक-परिमाणोऽपि. दीप:प्रदीपः, तमांसि-अन्धकाराणि हन्ति-विनाशयति, च पुनर्-यथा सुधाया-अमृतस्य, लवोऽपि-जलकणप्रमाणलेशोऽपि, रोगान्-कुष्ठ-दाघ-ज्वरादीन् हरते-अपनयति, च पुनर्-अग्नेः कणो-लवो यथा, आशु-शीघ्रं, तृण्यां-तृणगणं दहति-भस्मसात्करोति, तथा धर्मस्य-सुकृतस्य लेश-अंशोऽप्यमलो-मात्सर्यादिदोषरहितः, अंहः-पापं हन्ति । अत्र १ दीपा २ ऽमृतलवा ३ ऽग्निकणानां दृष्टान्तता शुद्धधर्मस्य च दान्तिकतेति ||११.१३।। रत्न.-पुनरेतदेव प्रकारान्तरेणाचष्टे - दीपो यथाऽल्पोऽपि..इति., व्याख्या-यथेति दृष्टान्ते, अल्पोऽपि दीपस्तमांसिअन्धकाराणि हन्ति तथा सुधाया लवो-लेशोऽपि रोगान् हरते-अपनयति, च
SR No.022283
Book TitleAdhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2016
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy