SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ २०६ श्रीअध्यात्मकल्पद्रुमे पूजनं जिनबिम्बानां, गुरु-पुस्तकादीनां तैः करणैः शिवं- मोक्षं न गन्ता-न गमिष्यति, तत्रार्थे दृष्टान्तमाह-यद् - यस्मात् कारणादातुरो - रोगी, अतुलैः - अनुपमैः रसायनैः-औषधमिश्रित-पक्वसुवर्णादिधातुचूर्णैः करणैः अपथ्यं-रोग्यहितं भुङ्क्त इत्येवंशीलः अपथ्यभोजी सन् न निरामयो-नीरुग् भवेत्, तपःप्रभृतीनां रसायनोपमानं गुणमत्सरस्यापथ्यभोजनोपमानमिति 'गुणि मत्सरी' इति वा पाठः ।।११.११।। [३०९] मन्त्रप्रभा-रत्न-रसायनादिनिदर्शनादल्पमपीह शुद्धम् । दाना- Sऽर्चना वश्यकऽऽपौषधादि, महाफलं पुण्यमितोऽन्यथाऽन्यत् ।।११.१२।। धनवि . – अथोक्तमेवार्थं पुनर्दृष्टान्तेन निर्दिशति ‘मन्त्रप्रभा' इति, इह जगति मन्त्रः - चिन्तामण्यादिः प्रभा च चन्द्र-सूर्यादीनां दीप्तिः, रत्नानि च-मौक्तिकादीनि, रसायनानि च पक्वपारदादीनि तान्यादौ येषां ते, तथा तेषां निदर्शन-दृष्टान्तस्तस्मात् मन्त्र-प्रभा-रत्न-रसायना-ऽऽदिनिदर्शनात्, अत्र आदिपदाद् दिव्यास्त्रादिपरिग्रहः, दानानि च - सुपात्रदानादीनि, अर्चनं चपुष्पादिभिर्जिनार्चनम्, आवश्यकानि च सामायिकादीनि, पौषधाश्च - १-आहार २-शरीरसत्कार ३-अब्रह्म ४ - सावद्यव्यापारनिवृत्तिरूपास्ते आदौ यस्य तद्दाना-ऽर्चना-ऽऽवश्यक-पौषधादि, अल्पमपि - स्तोकमपि शुद्धं मत्सरादिदोषरहितं पुण्यं महाफलं-स्वर्गा-ऽपवर्गादिप्राप्तिलक्षणं भवति, इतः-उक्तप्रकाराच्छुद्धधर्मादे अन्यथा-विपरीतं बह्वप्यशुद्धं पुण्यम्, अन्यद्- अल्पफलमफलं वा सदोषमन्त्रप्रभारत्न-रसायनादिवद् भवतीति । भावार्थस्तु यथा शुद्धे मन्त्र प्रभा - रत्न - रसायनादिके महान् गुणो भवति तथा शुद्धे पुण्ये फलं भवति, अशुद्धे पुण्ये अशुद्धे मन्त्रादाविव निष्फलता भवतीति ।।११.१२ ।। रत्न. – एतदेव प्रकारान्तरेण निदर्शयति १. ...रोग्यहित-वैद्यानुपदिष्टं भु... मु० । - -
SR No.022283
Book TitleAdhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2016
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy