SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ धर्मशुद्ध्युपदेशद्वारम् २०५ भुवः- पृथिव्याः सकाशात् प्रकटीकृतैर्मूलैः सदभिद्रुमा वृक्षा, न-नैव फलन्ति, न फलन्त्येव [न] अपि तु अधोनीचैर्निपतन्ति, तद्वत् प्रकटीकृतैरपि सुकृतैरपि तव न कश्चिद् गुणोऽस्ति, किंतु सुकृतहानिरेवास्तीति ।।११.१०।। [३०८] तपः-क्रिया-ऽऽवश्यक-दान-पूजनैः, शिवं न गन्ता गुणमत्सरी जनः । अपथ्यभोजी न निरामयो भवेद्रसायनैरप्यतुलैर्यदातुरः ।।११.११।। धनवि - अथ च स्वगतमत्सररूपदोषनिवृत्तये दृष्टान्तं दर्शयन् धर्मशुद्धिमुपदिशति 'तपस्- क्रिया' इति, गुणमत्सरी - गुणेषु परकीयज्ञानादिषु मत्सरो यस्य स, तथा जनो-लोकः, तपश्च षष्ठाष्टमादि क्रिया च - योगोपधानादिरूपा, आवश्यकानि च-सामायिक-चतुर्विंशतिस्तवादीनि दानानि च - अन्नादिदानान्यभयदानादीनि वा, पूजनानि च - अष्टप्रकार-सप्तदशप्रकारादीनि, ततो द्वन्द्वः, तैः शिवं-मोक्षं न गन्ता-न याता। इत्युक्तमर्थदृष्टान्तेन समर्थयति-यद्-यस्मात् कारणाद् अपथ्यभोजीवैद्यप्रतिषिद्ध-भक्ष्यभोक्त आतुरो-रोगी, अतुलैः-निरुपमैरपि रसायनैः सुवर्णभस्मसूतादिभिर्निरामयो-नीरोगो न भवेत् । अत्र तपःप्रभृतीनां दान्तिकता रसायनानां दृष्टान्तता, गुणमत्सरस्य दान्तिकता अपथ्यभोजनस्य दृष्टान्तता, शिवगमनस्य दान्तिकता निरामयताया दृष्टान्तता, जीवस्य दान्तिकताऽऽतुरस्य दृष्टान्तता इति भावः । ।११.११ ।। रत्न. - अथ गुणमत्सरे विषये उपदिशति मत्सरोतपस्-क्रिया-ऽऽवश्यक ..इति., व्याख्या-गुणानामर्थात् परसम्बधिनां, ऽस्यास्तीति गुणमत्सरी जनो - लोकः, तपः- चतुर्थ - षष्ठादि, क्रिया-कायोत्सर्गादिका, आवश्यकं-प्रतिक्रमणमन्यदप्यवश्यकरणीयं वा, दानं - सुपात्रदाना - ऽभयदानलक्षणं, १. 'अशना०' मु० । -
SR No.022283
Book TitleAdhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2016
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy