________________
२०४
श्रीअध्यात्मकल्पद्रुमे कमलनयनाः कामिन्यः, तास्तासां वक्षःस्थलानि, दुकूलैः-देशविशेषोत्पन्नांशुकैः, कलितानि-सहितानि तैराच्छादितानीत्यर्थः, सौभाग्यं दधन्ते तथा न प्रकटीकृतानिअनाच्छादितानीति, तेन गुण-स्तुतीच्छामन्तरेण तान्याच्छादितान्येव सुकृतानि कुरुष्वेत्युपदेश इति ।।११.९।। | [३०७] स्तुतैः श्रुतैर्वाऽप्यपरैर्निरीक्षितैर्
गुणस्तवात्मन् ! सुकृतैर्न कश्चन | फलन्ति नैव प्रकटीकृतैर्भुवो,
द्रुमा हि मूलैर्निपतन्त्यपि त्वधः ||११.१०।। धनवि.-अनन्तरोक्तमेवार्थं दृष्टान्तान्तरेण दर्शयति - 'स्तुतैः' इति, हे आत्मन्नपरैः-स्वव्यतिरिक्तैः स्तुतैः-स्तुतिविषयीकृतैर्वा-अथवा श्रुतैः-अपरैराकर्णितैर्वाऽथवा, परैर्निरीक्षितैः-विलोकितैः, तव सुकृतैः कश्चन-कोऽपि गुण-उपकारो न भवति, प्रत्युत दोषः स्यात्, 'पुण्यनाशा[त?]पारगमाद् धर्मः क्षरति कीर्तनाद् [ ] इति वचनादर्थतोऽवसेयम । अत्र दृष्टान्तमाह-हि यतः कारणाद् भुवा-पृथिव्याः, प्रकटीकृतैः-मृत्तिकाद्यावरणराहित्येन प्रकाशितैरुद्घाटितैर्मूलैःबुध्नैर्दुमा-वृक्षा नैव फलन्ति-नैव फलवन्तो भवन्ति-अपि तु भुवः प्रकटीकृतैर्मूलैर्दुमा अधो निपतन्ति । अत्र सुकृतस्य दान्तिकता, मूलस्य दृष्टान्तता, आत्मनो दान्तिकता द्रुमस्य दृष्टान्तता, स्तवन-श्रवण-निरीक्षणानां दान्तिकता प्रकटीकरणस्य दृष्टान्तता, गुणाभावस्य दार्टान्तिकता फलाभावस्य दृष्टान्तता, धर्मक्षरणस्य दार्टान्तिकता अधःपतनस्य दृष्टान्तता इति दृष्टान्त-दाटन्तिकयोजनेति भावः ।।११.१०।।
रत्न.-पुनरेतदेव प्रकारान्तरेणाह -
स्तुतैः श्रुतैः..इति., व्याख्या-हे आत्मन्नेवंविधैः कृतैः सुकृतैः, तव कश्चन गुणो नास्ति, कीदृशैः ? - स्तुतैः-स्तुतिविषयीकृतैः तथा श्रुतैः-श्रुतिविषयीकृतैर्वा अपि पुनरर्थे, अपिः परैर्निरीक्षितैः-दृष्टैः, तत्रार्थे दृष्टान्तमाह-हि यस्मात् कारणाद्