________________
धर्मशुद्ध्युपदेशद्वारम्
२०३
अज्ञानं तेषु विप्लुता-व्यसनिनः, हे आत्मन् ! अमूनि दानादिधर्माणि मलीमसानि, उपेक्ष्य मुक्त्वेत्यर्थः, अण्वपि - स्तोकमपि शुद्धं निर्मलं सुकृतं पुण्यं चर- कुरु 'धर्मं दानादिके' इति लिङ्गानुशासनवचनात् 'दानादि धर्माणि' अत्र न पुंसकत्वमिति ।।११.८ ।।
[३०६] आच्छादितानि सुकृतानि यथा दधन्ते, सौभाग्यमत्र न तथा प्रकटीकृतानि ।
व्रीडा - SSनता - Sऽननसरोज-सरोजनेत्रा
वक्षःस्थलानि कलितानि यथा दुकूलैः । ।११.९ ।।
धनवि.—अथ धर्मकरणे श्लाघार्थितालक्षणदोषनिवृत्तये दृष्टान्तदर्शनपूर्वकं धर्मशुद्धिमुपदिशति
—
'आच्छादितानि' इति, यथा-येन प्रकारेण आच्छादितानि - अप्रकटीकृतानि सौभाग्यंपरेषामग्रेऽप्रकाशनेन गूढानि, सुकृतानि-पुण्यकर्माणि, अत्र जगति, सुभगतां दधन्ते-धारयन्तीति, तथा तेन प्रकारेण प्रकटीकृतानि परेषामग्रे प्रकाशनेन व्यक्तीकृतानि सौभाग्यं न दधति; अत्र दृष्टान्तमाह-यथेति दृष्टान्ते व्रीडा - लज्जा तया [आ] समन्तान्नतं- नम्रम्, आननं मुखं तदेव सरोजं-कमलं यासां ताः, तथा ताश्च ताः सरोजनेत्राश्च - ललनाः, तास्तासां वक्षःस्थलानि कुचप्रदेशाः, व्रीडाऽऽनता-ऽऽननसरोज-सरोजनेत्रावक्षःस्थलानि, दुकूलैः कलितानि - सहितानि जगति सौभाग्यं यथा दधन्ते तथा प्रकटीकृतानि - दुकूलरहितानि न सौभाग्यं दधतीति ।।११.९।।
रत्न.—अथ प्रच्छन्नं कृतेषु सौभाग्यमाह
आच्छादितानि-इति., व्याख्या - हे आत्मन ! अत्र जिनशासने यथा सुकृतानिपुण्यान्याच्छादितानि कृतानि सन्ति सौभाग्यं - सुभगत्वं चारुत्वमित्यर्थः दधन्ते, तथा प्रकटीकृतानि न सौभाग्यं दधन्ते, अत्रार्थे दृष्टान्तमाह-यथेति दृष्टान्तदर्शने, व्रीडया लज्जया नतं-नम्रम् आननसरोजं - वदनकमलं यासां ताश्च ताः, सरोजनेत्राः
-