SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ २०२ श्रीअध्यात्मकल्पद्रुमे रत्न.-भवेन्न कोऽपि इति. व्याख्या-हे आत्मन् ! केवलं स्तुतिः स्तुतिमात्रं तस्माद् गुणी-गुणवान् न कोऽपि भवेत् स्यात्, तथा बह्वयाऽपि भूयस्याऽपि ख्यात्या-प्रसिद्ध्या परत्र-परस्मिन् जन्मनि हितं न भवेत्, ततो हेतोर्मुधा-वृथा अभिमानेन ग्रहिलः सन् आयतिम्-उत्तरकालं किं निहंसि ?, अपि तु मा जहीत्यर्थः, कैः ? - ईर्ष्यादिभिः, आदिशब्देन क्रोधादिग्रहणं, त्वं किंलक्षणः ? तद्-हितमिच्छसीति तदिच्छुरिति ।।११.७ ।। [३०५] सृजन्ति के के न बहिर्मुखा जनाः, प्रमाद-मात्सर्य-कुबोधविप्लुताः । दानादिधर्माणि मलीमसान्यमू -न्युपेक्ष्य शुद्धं सुकृतं चरा-ऽण्वपि ||११.८।। धनवि.-अथाऽशुद्धधर्मकर्त्तारो भूयांसः, शुद्धधर्मकर्त्तारश्चाल्पीयांस इति ख्यापयन् पुनर्धर्मशुद्धिमुपदिशति - 'सृजन्ति' इति, प्रमाद-मात्सर्ये च प्रसिद्धे, कुबोधश्च-मिथ्यात्वं, तैर्विप्लुताउपद्रुताः प्रेरिता वा बहिर्मुखा-प्राकृतजना बाह्यदृष्टयो, दानादिधर्माणि मलीमसानिअतिशयेन मलिनानि, के के न सृजन्ति ? - न कुर्वन्ति-अपि तु प्रायः सर्वेऽपि कुर्वन्तीत्यर्थः, धर्माणीत्यत्र धर्मशब्दस्य नपुंसकता 'धर्मं दानादिके' इति लिङ्गानुशासन[ ]वचनात्; तेन हेतुना-अमूनि मलीमसानि दानादिधर्माणि, उपेक्ष्य-उपेक्षाविषयीकृत्य, शुद्धं-प्रमादादिदोषरहितं सुकृतं-पुण्यं, अण्वपि-स्तोकमपि चर-समाचरेति ।।११.८।। रत्न.-अथ दानादिधर्मं मलिनं मा कुर्वित्याह - सृजन्ति के के न इति., व्याख्या-हे आत्मन् ! के के बहिर्मुखं येषां ते बहिर्मुखा, यत्-तत् प्रलापिन इत्यर्थः, दानादिधर्माणि प्रति मलीमसानि, न सृजन्ति ? - न कुर्वन्ति, अपि तु सर्वेऽपि बहिर्मुखाः सृजन्तीत्यर्थः, यतः किंलक्षणाः ? - प्रमादो मद्यादिः पञ्चधा, मात्सर्यं-परसंपदुत्कर्षासहनत्वं, कुबोधः
SR No.022283
Book TitleAdhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2016
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy