SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ २०१ धर्मशुद्ध्युपदेशद्वारम् धनवि.-उक्तमेवार्थं प्रकारान्तरेण दर्शयितुमाह - 'अथवा' 'स्तवैर्' इति, यथा स्वस्य स्तवैः, च पुनः, स्वस्य विगर्हणैः प्रमोदतापी-हर्ष-विषादौ भजसे-प्रतिपद्यसे, तथा-तेन प्रकारेण परेषां-रिपूणामपि, तैः स्तवैर्विगर्हणैश्च चेद्-यदि, इमौ प्रमोद-तापौ भजसे, वा-अथवा चतुर्ध्वपि-स्वीयस्तव १-स्वीयगर्हण २-परकीयस्तव ३-परकीयविगर्हणेषु ४-अप्युदासताम्-औदासीन्यं भजसे, ततः-तदा भवान्, अर्थवेदी-अर्थ-परमार्थं वेत्तीत्यर्थवेदी, परमार्थज्ञोऽसीत्यर्थः, ||११.६ ।। इति वा पाठ इति स्पष्टम् ।। रत्न.-अथैनमेवार्थं पाठान्तरेणाह - स्तवैर्यथा इति. व्याख्या-हे आत्मन् ! त्वं यथा स्वस्य स्तवैश्च पुनः स्वस्य विगर्हणैः प्रमोद-तापौ हर्ष-परितापौ भजसे तथा चेद-यदि परेषां, तैः स्तवविगर्हणैश्चेमौ प्रमोद-तापौ त्वं भजसे वा-अथवा स्तव-विगर्हण-प्रमाद-तापेषु चतुर्ध्वप्युदासतां-निःस्पृहितां भजसे, ततः-तर्हि त्वमर्थं वेत्सीत्यर्थवेद्यसीति पाठान्तरम् ||११.६।। [३०४] भवेन्न कोऽपि स्तुतिमात्रतो गुणी, ख्यात्या न बहव्याऽपि हितं परत्र च | तदिच्छुरीpदिभिरायतिं ततो, मुधाऽभिमानग्रहिलो निहंसि किम् ? ||११.७।। धनवि.-अथ श्लाघार्थितायां दोषं गुणाभावं च दर्शयन् धर्मशुद्धिमुपदिशन्नाह'भवेन्न कोऽपि' इति, कोऽपि पुमान् स्तुतिमात्रतः-केवलायाः परकृतप्रशंसाया, गुणी-गुणवान् न भवेत्, च पुनर्बह्वयाऽपि-भूयस्याऽपि, ख्यात्या-अयं गुणवानिति प्रसिद्ध्या परत्र-परभवे हितं-सुखोपायो न भवेत्; ततः कारणात् तदिच्छु:-तत् परत्रहितमेषणशीलस्त्वम् ईर्ष्यादिभिः, आदिपदादसूयादिभिश्च, आयतिम्-उत्तरकालं मुधा-निरर्थकम् अभिमानग्रहिल:-अहङ्कारग्रस्तः सन् किं निहंसि ? - किं विनाशयसीत्यर्थः ।।११.७।।
SR No.022283
Book TitleAdhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2016
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy