________________
२००
श्रीअध्यात्मकल्पद्रुमे रिक्तता-राहित्यं भवित्री-भवनशीला, च पुनश्चेद्-यदि तव दोषान्-अपगुणान् जनेषु गृह्णत्सु परितापमुपैषि ततो हेतोस्त्वयि दोषाः सुस्थिराः-सुनिश्चला भवन्तु, तेन स्वगुणप्रशंसायां प्रमोदं मा कुरु, स्वदोषजल्पने च परितापं मा कुर्वित्यर्थः ।।११.४।। [३०२] प्रमोदसे स्वस्य यथाऽन्यनिर्मितैः,
स्तवैस्तथा चेत् प्रतिपन्थिनामपि । विगर्हणैः स्वस्य यथोपतप्यसे,
तथा रिपूणामपि चेत्, ततोऽसि वित् ।।११.५।। धनवि.-अथ स्व-परस्तुतौ स्व-परनिन्दायां च समताभावकरणद्वारा मत्सरपरिहारोपदेशगर्भी धर्मशुद्धिमुपदिशति -
'प्रमोदसे' इति त्वं यथा-येन प्रकारेण, अन्यनिर्मितैः-परकृतैः, स्वस्य-निजस्य स्तवैः [प्रमोदसे-हृष्यसि, चेद्-यदि तथा-तेन प्रकारेण परनिर्मितैः प्रतिपन्थिनांत्ववैरिणामपि स्तवै-गुणप्रशंसनैः प्रमोदसे, च पुनर्-यथा स्वस्य-निजस्य विगर्हणै:निन्दाकरणैर्, उपतप्यसे-खिद्यसे, चेद्-यदि तथा-तेन प्रकारेण रिपूणामपि विगर्हणैरुपतप्यसे, ततः-तदा त्वं विद्-वेत्तीति वित्-पण्डितोऽसीति ।।११.५।।
रत्न.-प्रमोदसे स्वस्य..इति. व्याख्या-हे आत्मन् ! स्वस्यान्यैर्निर्मितैः-कृतैः स्तवैः-स्तवनैः कृत्वा प्रमोदसे-हर्षं दधसे तथा चेद्-यदि प्रतिपन्थिनां-वैरिणामपि स्तवैः प्रमोदसे, अन्यच्च स्वस्य विगर्हणैः-निन्दाभिरुपतप्यसे तथा रिपूणामपि विगर्हणैरुपतप्यसे, ततः-तर्हि त्वं वेत्सीति विद्-विद्वानसीत्यर्थः, उपतप्यसे कर्मकर्तरिप्रयोगे साधुः ||११.५।। [३०३] स्तवैर्यथा स्वस्य विगर्हणैश्च,
प्रमोद-तापी भजसे तथा चेत् । इमौ परेषामपि तैश्चतुर्वप्युदासतां वाऽसि ततोऽर्थवेदी ।।११.६ ।। इति वा पाठः।