________________
धर्मशुद्ध्युपदेशद्वारम्
प्राप्नुयाः, हि यतः कारणाद् इष्टदानाद् विना-अभिलषणीयवस्तुवितरणमन्तरेण, इष्टलाभः-स्पृहणीयवस्तुप्राप्तिर्न स्यादिति ।।११.३ ।।
रत्न. -अथ स्वगुणश्लाघेच्छु : परगुणप्रशंसां कुर्वित्युपदिशति
यथा तवेष्टा..इति. व्याख्या- हे आत्मन् ! यथा तव स्वगुणप्रशंसा इष्टावल्लभा तथा परेषां जनानां स्वगुणप्रशंसा इष्टा वर्त्तते इति हेतोस्त्वं तेषां इमां गुणप्रशंसां संतनु-सम्यग् विस्तारय, कुर्वित्यर्थः, त्वं किंलक्षणः ? मत्सरंपरगुणोत्कर्षासहनलक्षणमुज्झसि त्यजसीत्येवंशीलो मत्सरोज्झी अर्थात् परेषामेवेति, यद्-यस्मात् कारणात्, तां स्वगुणप्रशंसां लभेथाः प्राप्नुयाः, हि यस्मात् कारणादिष्टस्य-वाञ्छितस्य दानाद् विना इष्टस्य - वाञ्छितस्य लाभो न भवतीति
।।११.३।।
[३०१] जनेषु गृहणत्सु गुणान् प्रमोदसे, ततो भवित्री गुणरिक्ताता तव । गृह्णत्सु दोषान् परितप्यसे च चेद्, भवन्तु दोषास्त्वयि सुस्थिरास्तव ।।११.४।।
-
-
१९९
धनवि.—अथ स्वगुणप्रशंसां परनिन्दां च निषेधयन्नुपदिशति
'जनेषु' इति जनेषु-लोकेषु तव गुणान् - दातृता-ज्ञातृता-तपस्विता-सुस्वरताऽऽदिधर्मान् गृहणत्सु-स्तुतिकरणादिना स्वीकुर्वत्सु, प्रमोदसे-हृष्यसि ततो गुणग्रहणजनितप्रमोदात, तव गुणरिक्तता गुणशून्यता भवित्री - भाविनी; च पुनश्चेद्यदि तव दोषान्-अज्ञातृत्वादीन् गृह्णत्सु-निन्दाकरणादिना स्वीकुर्वत्सु परितप्यसेपरितापमाप्नोषि, परिपूर्वस्य तपिंच् ऐश्वर्ये [हे.धा. १२६७] इत्यस्य प्रयोगः, तदा तव दोषास्त्वयि सुस्थिराः- सुनिश्चला भवन्तु इति ।।११.४।।
1
रत्न. -अथ कियत्सु काव्येषु स्वगुणप्रशंसेच्छायां दोषमाह
जनेषु गृह्णत्सु..इति. व्याख्या- हे आत्मन् ! यतो-यस्मात् कारणात्, त्वं तव गुणान् प्रति जनेषु गृह्णत्सु प्रमोदसे- हर्षं प्राप्नोषि ततो हेतोस्तव स्वगुणैः कृत्वा
,