________________
१९८
श्रीअध्यात्मकल्पद्रुमे कृते क्रियमाणे वा दोषाः यथेप्सितफलसाधका न भवन्तीति ।।११.२।। रत्न.-अथ सुकृते मलानभिधित्सुराह -
शैथिल्य-मात्सर्य..इति. व्याख्या-सुकृते-धर्मे इमे मला भवन्ति, इमे के ? - इत्याह-शैथिल्यं-शिथिलता अर्थात् धर्मे अदाढ्य, मात्सर्यं-गुणिषु मत्सरकरणं, कदाग्रहः-कुत्सितहठः, क्रुत्-कोपः, द्वन्द्वसमासे, ताः शैथिल्य-मात्सर्य-कदाग्रहक्रुधः, तथा अनुतापः पश्चात्तापः दानादिधर्मं कृत्वा पश्चात्तापकरणं 'हा मया बहु दत्तं, वृथा तपः कृतम्' इत्यादि, च पुनर-दम्भ:-कपटम्, अविधिः-अनाचारः, गुरोर्भावो गौरवं गुरुत्वं, द्वन्द्वसमासे तानि, तथा प्रमादः-अनवधानता, मानःचित्तोन्नतिः, तौ तथा कुत्सितो गुरुः-धर्मोपदेष्टा, प्रस्तरोपमानः स्वयं निमज्जन् परानपि निमज्जयतीतिलक्षणः, कु-कुत्सिता सङ्गतिः, मद्यप-कुमत्यादीनां सङ्गतिरित्यर्थः, श्लाघा-प्रशंसा, तस्या अर्थित्वं वाञ्छकत्वं-'दानादि ददानस्य मम कश्चित् श्लाघां करोति नवा ति स्पृहयालुत्वं, वा पुनरर्थे, एभिर्धर्मो मलिनो भवतीति ||११.२।। [३००] यथा तवेष्टा स्वगुणप्रशंसा,
तथा परेषामिति मत्सरोज्झी । तेषामिमां संतनु यल्लभेथास्
तां नेष्टदानाद्धि विनेष्टलाभः ||११.३।। धनवि.-अनन्तरं स्वश्लाघार्थिता समत्सरता च मलत्वेनोक्ता, तेन तत्परिहारेण धर्मशुद्धिमुपदिशति -
'यथा तव' इति यथा-येन प्रकारेण तव स्वगुणप्रशंसा-स्वस्य-निजस्य गुणाज्ञान-विज्ञानादयः, तेषां प्रशंसा-श्लाघा, इष्टा-स्पृहणीया वर्तते, तथा-तेन प्रकारेण परेषां-आत्मव्यतिरिक्तानामन्येषां स्वगुणप्रशंसा इष्टा वर्त्तते, इति हेतोस्त्वं मत्सरमुज्झति-त्यजतीति मत्सरोज्झी-गतमत्सरः सन्, तेषां परेषामिमां गुणप्रशंसा संतनु-सम्यक्-प्रकारेण तनु-विस्तारय, यद्-यस्मात् त्वं तां गुणप्रशंसां लभेथा: