________________
२०८
श्रीअध्यात्मकल्पद्रुमे पुनरग्नेः कणोऽपि आशु-शीघ्रं तृण्यां तृणगणं दहति, तथेत्युपनये ईर्ष्यादिमलरहितो धर्मस्य दानादेर्लेशोऽप्यंहः पापं हन्तीति, अमल इति विशेषणं दीपादीनामपीति ||११.१३।। [३११] भावोपयोगशून्याः कुर्वन्नावश्यकीः क्रियाः सर्वाः ।
देहक्लेशं लभसे फलमाप्स्यसि नैव पुनरासाम् ||११.१४।। धनवि.-अथ धर्मशुद्धिद्वारमुपसंहरन् भावोपयोगरहितं बह्वपि पुण्यं निष्फलं भवतीति दर्शयति -
'भावोपयोग' इति, भावोपयोगशून्या-भावश्च-आवश्यकक्रियायां चित्तोत्साहः, उपयोगश्च-आवश्यकादिक्रियायां सूत्रार्थोभय-व्यञ्जन-दीर्घ-ह्रस्व-लघ्वक्षराधुपयुक्तता, ताभ्यां शून्या-रहिताः सर्वाः-सकला आवश्यकी:-अवश्यकर्त्तव्याः क्रिया:षडावश्यककरण-प्रतिलेखना-प्रमार्जनादिकाः, कुर्वन्-समाचरन् देहक्लेशं-मुधा शरीरप्रयासं लभसे-प्राप्नोषीत्यर्थः, अत्र सर्वा इत्यनेन परीषहसहनाऽऽतापनाग्रहणादिकाः शून्याः क्रिया ग्राह्याः, पुनरित्युक्तक्रियासमुच्चयार्थे, तेन पुनर्-आसाम् अनन्तरोक्तानां क्रियाणां फलं-मोक्षलक्षणं नैवाप्स्यसि-नाधिगच्छसि, भावशून्यत्वादिति ।।११.१४ ।।
इति श्रीतपागच्छनायक० अध्यात्मकल्पद्रुमटीकायां सकलशास्त्रारविन्दप्रद्योतनमहोपाध्यायश्रीकल्याणविजयगणिशिष्यो श्रीधनविजयगणिविरचितायां धर्मशुद्धिनाम्न्येकादशी पदपद्धतिः ।।११।।
रत्न.-अथ सर्वासां क्रियाणां भावपूर्वककरणेन सफलतामुपदिशति -
भावोपयोगशून्या इति., व्याख्या-हे आत्मन् ! अवश्यं भवा आवश्यक्यः, आवश्यक्यश्च ताः क्रियाश्चावश्यकीक्रियाः, ताः सर्वाः प्रति कुर्वन् देहस्य क्लेशं लभसे, यतः किंलक्षणाः? भावः श्रद्धा, तस्योपयोगः, तेन रहिताः, पुनरितिविशेषे, आसां क्रियाणां फलं-स्वर्गादिप्राप्तिलक्षणं नैवाप्स्यसि-नैव लप्स्यसे १. ०वश्यिकीः इति पाठः प्रतौ मूलेऽपि, टीकायामपि ।