SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ ग्रन्थपीठिका तद् वदाचरन् सुधारसायमानः, [सकलागमादिसुशास्त्रार्णवोपनिषद्भूत - सुधारसायमानः] अपरोऽपि सुधारसोऽर्णवोपनिषद्भूत इति सान्वर्थं विशेषणम् । अन्यान् शृङ्गारादिरसान् विहाय शान्तनामरसाधिराजस्य भावनं कुतः ? इति हेतुत्रयमाह - तृतीयान्तं पञ्चम्यन्तं लिङ्गत्वप्रतिपादकं वचनं हेतुः [ ] इति, प्रथमं तृतीयान्तं हेतुद्वयं दर्शयति प्रथमं हेतुमाह- ऐहिकः - इहलोकसंबन्धी आमुष्मिकः - परलोकसंबन्धी योऽनन्तानन्दसन्दोहः, तस्य साधनमं, तस्य भाव ऐहिकामुष्मिकानन्तानन्द-सन्दोहसाधनता तया । शृङ्गारादयो हि कियदैहिकानन्दसन्दोहसाधनं, न तूक्तविशेषणावच्छिन्नानन्तानन्दसन्दोहसाधनम्, ऐहिकामुष्मिकानन्तानन्द - सन्दोहस्यास्मादेव जायमानत्वात्, यत उक्तम् [प्रशमरतिग्रन्थे] [१५] "नैवास्ति राजराजस्य तत् सुखं नैव देवराजस्य । यत् सुखमिहैव साधोर लोकव्यापाररहितस्य ।। १२८ । ।" इति । द्वितीयं हेतुमाह-परमश्चासावर्थश्च परमार्थः, तं विदन्तीति पारमार्थिकाः, उपदेशार्ह उपदेश्यः पारमार्थिकैरुपदेश्यस्तस्य भावः तत्ता तया । पारमार्थिका हि एनमेवोपदिशन्तीति । 1 तृतीयं हेतुमाह - सर्वेषु रसेषु सारभूतस्तस्य भावस्तत्त्वं तस्मात् । यत एवायमैहिकामुष्मिकानन्तानदसन्दोहसाधनम् ( १ ) तत एव पारमार्थिकैरुपदेश्यः (२) तत एवायं सर्वरससारभूतः (३) इति, अत्र हेतुहेतुमद्भावः सूचितः । पद्यसन्दर्भेण कीदृशेन ? शान्तरसस्य भावना - वासना, सैवात्मा-स्वरूपं यस्य तद्, आत्मानमधि- आश्रित्य भवतीत्यध्यात्मम्, शान्तरसभावनात्मा च तदध्यात्मं च शान्तरसभावना - ऽत्माध्यात्मं, तस्य कल्पद्रुम इव शान्तरसभावनाऽत्माध्यात्मकल्पद्रुमः, शान्तरसभावनात्मा-ऽध्यात्मकल्पद्रुम इत्यभिधानं यस्य [तत्शान्तरसभावनात्माध्यात्म-कल्पद्रुमाभिधानम् ] तद् ग्रन्थान्तरं च शान्तरसभावनात्मा १. '(हेतुः)' इत्यधिकः पाठः मु० । -
SR No.022283
Book TitleAdhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2016
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy