________________
श्रीअध्यात्मकल्पद्रु
पद्यसन्दर्भेण भाव्यते' इत्यनेन प्रतिपाद्य - प्रतिपादकभावः संबन्धो दर्शितः, परमार्थिकोपदेश्यतया' इत्यनेन निःस्पृहोऽधिकारी दर्शितः इति पीठिकाव्याख्या । अथ शान्तरसभावना कथं भवतीत्याकाङ्क्षायामाह तद्यथा-तद् यथा भवति तथाऽनन्तरमेव दर्श्यत इत्यर्थः ।
रत्नचन्द्रगणिकृता वृत्तिः -
८
श्रीगुरुभ्यो नमः । परमगुरु-गच्छाधिराज-श्रीविजयदेवसूरिचरणकमलेभ्यो नमः । महोपाध्यायश्रीशान्तिचन्द्रगणिगुरुभ्यो नमः ||
[१३] प्रणतसुरासुरकोटी-कोटीरमेणोमयूखमहितपदम् । श्रीमत्सुपार्श्वसार्वं मण्डपदुर्गावनीरत्नम् ।।१।।
[१४] नत्वाऽध्यात्मसुरद्रुम - विवृतिमहं स्वल्पबुद्धिबोधार्थम् । श्रीविजयदेवसूरि-प्राप्तादेशस्तनोमि मुदा ||२|| युग्मम् ।
तत्रोपन्याससूत्रमिदम्-अथायम् इति, व्याख्या - अथशब्दो मङ्गलार्थ आनन्तर्यार्थश्च, आनन्तयार्थे कथमिति ? पूर्वं श्रीमुनिसुन्दरसूरिणा गुर्वावल्यपरपर्यार्यःत्रिदश-तरङ्गिणीनामा गुरुपट्टक्रमो वर्णितः, तेन' अथेति - तदनन्तरं मया श्रीमुनिसुन्दरसूरिणा, रसेष्वधिराजो रसाधिराजः, पद्यसन्दर्भेण -पद्यगुम्फेन, भाव्यतेमनसि चिन्तितो वाग्विषयीक्रियत इत्यन्वयलेशः । तत्र रसाधिराजत्वं पौरदस्यापि भवतीति-शान्त इति नाम यस्य स शान्तनामा, रसेषु १ - श्रृङ्गार, २- हास्य, ३-करुण, ४-रौद्र, ५- वीर, ६ - भयानक, ७- बीभत्सा, ८-ऽद्भुत, ९ - शान्तेषु अधिराजत्वमस्यैव वर्त्तते इति,
मैदादिषु जैनसाधुषु साक्षादुपलभ्यमानत्वात् अयम्-इति । किंलक्षणः ? ज्ञान-दर्शन-चरणरूपा श्री : - सम्पद्विद्यतेऽस्माद्, अनन्ता सुखरूपा श्रीः- सम्पद् विद्यते वाऽस्मात् स श्रीमान् भवतीति । पुनः कीदृक् ? - सकलान्यागमादिसुशास्त्राण्येवार्णवः, तस्योपनिषद्भूतः - सारभूतः, अत एव सुधारसः - अमृतरसः,
१. णि मु० । २. र्थी मु० कार्य:- सं. । ३. रसः स्वादे... पारदेऽपि च (हैम. अनेका. ५७३-५७४) ४. शृङ्गार... चेत्यष्टौ नाट्ये रसः स्मृताः (का.प. ४.२३) मां मम्मटे 'रस' जणाव्या पछी स्वतंत्र (कारिका ३५मां) रूपे शान्त ने नवमा रसरूपे स्वीकार्यो छे. ५. अहं आदौ येषां ते इति विग्रहः