________________
१९२
श्रीअध्यात्मकल्पद्रुमे भिन्न-भिन्नस्थाने, पुनः कीदृशैः -कृपणैः - दीनैः परभवे सुखकरणासमथैः, अस्मिन्नवसरे परलोकगमनावसरे इत्यर्थः, स्वस्य हितोपयोगिनः प्रति विमृशविचारय, परलोकहितोपयोगिनो ज्ञान-दर्शन-चारित्रादिगुणान् विचारयेत्यर्थः ||१०.२३।।
[२९४] सुखमास्से सुखं शेषे,
भुङ्क्ष पिबसि खेलसि । न जाने त्वग्रतः पुण्यैर्
विना किं ते भविष्यति ? ||१०.२४ ।। धनवि.-अथ पुराकृतपुण्यानुभावेन सुखमनुभवन्तमात्मानमुपदिशति -
'सुखमास्से' इति, हे आत्मन् ! त्वं सुखं यथा स्यात् तथा सुखासनसिंहासन-भद्रासनादौ आस्से-उपविशसि, 'आसिक् उपवेशने' [हे. धा १११९] इत्यस्यायं प्रयोगः, च पुनः सुखं शेषे-पल्यङ्क-पट्टिकादौ स्वपिषि, च पुनः सुखं भुङ्क्ष-शालिदाल्यादिकं भक्ष्यसि, च पुनः सुखं पिबसि-कर्पूरादिवासितं शीतलजलं मदिरादि वा पानविषयीकरोषि, च पुनः सुखं खेलसि-गजतुरङ्गादिभिरक्ष-कन्दुकादिभिर्वा क्रीडसि; तु पुनरहमेवं न जाने-न वेद्मि अग्रतः-अग्रेतनभवे पुण्यै-इहभवकृतसुकृतैर्विना किं-सुखासन-सुखशयनादिमध्ये किं वस्तु ते-तव भविष्यति ? ||१०.२४ ।।
रत्न:-अथ सांप्रतं सुखेन विलसतस्तवाग्रे किं भविष्यतीति ज्ञापयति -
सुखमास्से. इति व्याख्या-हे आत्मन् ! त्वं सांप्रतं संपन्मुदितः सन्, सुखं यथा स्यात तथा आस्से-उपविशसि, तथा सुखं शेषे-स्वपिषि तथा सुखं भुक्षे भुक्तिं करोषि तथा पिबसि मद्यादि, सुखमिति क्रियाविशेषणं सर्वत्र योज्यं, तथा खेलसि-द्यूत-क्रीडा-मृगयादि रमसे, परमग्रतो भवे ते-तव पुण्यैर्विना किं ? भविष्यतीति अहं न जाने आगमा-ऽनुमानाभ्यां महत् कष्टं भविष्यतीति, १. तु - मु० ।