SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ वैराग्योपदेशद्वारम् १९१ यैः क्लिश्यसे त्वम् इति. व्याख्या- हे आत्मन् ! यैर्निमित्तभूतैस्त्वं क्लिश्यसे, यदर्थं त्वं क्लेशं प्राप्नोषीत्यर्थः, यैः कैरित्याह- धन च बन्धवश्च अपत्यानि च यशश्च प्रभुत्वं च तान्यादौ येषां तानि धन-बन्ध्वपत्य-यशः- प्रभुत्वादीनि तैः किंभूतैः ? - आशये चित्ते तिष्ठन्तीति तानि तैः चेति विशेषे, तैर्धनादिभिरिह लोके च पुनः प्रेत्य-परभवे ते - तव कियान् गुणः साध्यः ?, च पुनस्ते - तवा - ऽऽयु:-जीवितं किं ? कियदित्येवं त्वं विचारय, विचार्य च तैरिहभवेऽपि परभवेऽपि न कश्चिद् गुणोऽस्तीति आयुरपि तुच्छं मत्वाऽऽत्महितं कुरुष्वेत्युपदेशः ।।१०.२२ ।। [ २९३ ] किमु मुह्यसि गत्वरैः पृथक्कृपणैर्बन्धुवपुः परिग्रहैः । विमृश स्वहितोपयोगिनोऽ वसरेऽस्मिन् परलोकपान्थ रे ! ।।१०.२३।। धनवि . - अथ स्वहिताचरणोपदेशमाह 'किमु मुह्यसि' इति रे! परलोकपान्थ ! पृथग् गत्वरैः- भिन्नभिन्नस्थानगमनशीलैः, कृपणैः- तुच्छैः स्वार्थसिद्धिं यावत् सुन्दरैस्- तदनन्तरमसुन्दरैरित्यर्थः, बन्धु- वपुःपरिग्रहैः-स्वजन-तनु-धनादिभिः किमु इति प्रश्ने मुहयसि ? - मोहं यासि; अस्मिन् दृश्यमानमानुष्यादिसमग्रसामग्रीसहिते, अवसरे - प्रस्तावे, स्वहितोपयोगिनोनिजसुखोपायहेतून् पदार्थान् श्रीजिनधर्माचरण-लक्षणान् विमृश- विचिन्तय; अत्र ‘परलोकपान्थ’ रे ! इति संबोधनपदेन, 'पृथग्गत्वरैः' इतिपदेन चानित्यताभावना द्योत्यते ।।१०.२३ ।। रत्न. -अथ स्वजनादिषु मोहं संत्यज्य हितोपयोगिषु विचारायोपदिशतिरे ! परलोकपथिक ! किमु मुह्यसि इति. व्याख्या- रे ! परलोकपान्थ ! बन्धवश्च वपुश्च परिग्रहश्च तैः किमु इति ? किं मुह्यसि - मोहं प्राप्नोषि, अपि तु मा मुह्य, यतः किंभूतैः ? - गत्वरैः- गमनशीलैः कथं ? - पृथग् - १. 'त्वं' इति पाठः मूलत्वेन गृहीतः । -
SR No.022283
Book TitleAdhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2016
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy