________________
१९०
श्रीअध्यात्मकल्पद्रुमे न त्वरसे ? - किं न वेगवान् भवसीति ।।१०.२१ ।।
रत्न.-पुनरपि हितार्थे जीवं प्रत्युपदिशति -
ये पालिता इति. व्याख्या-हे आत्मन ! ये स्वजनादयस्त्वया पालिताः, च पुनर्, ये सहैव वृद्धिम् इता-गताः, ये च भृशम्-अत्यर्थं त्वयि स्निग्धाः-स्नेहवन्तः, ये च ते-तव स्नेहपदं स्थानं, तानपि यमेन, अऽदयं-दयारहितं यथा स्यात् तथा गृहीतान् ज्ञात्वाऽपि हितार्थं हितं कर्तुमित्यर्थः किं न त्वरसे ? - त्वरां किं न करोषि, अपि तु त्वरस्वेत्यर्थः ।।१०.२१।। [२९२] यैः क्लिश्यसे बन्धन-बन्ध्वपत्य
यशःप्रभुत्वादिभिराशयस्थैः । कियानिह प्रेत्य च तैर्गुणस्ते,
साध्यः ? किमायुश्च ? विचारयैवम् ।।१०.२२ ।। धनवि.-अथ पुत्र-कलत्रादिप्रतिबन्धेन ये पापकर्मकारिणः, तान् प्रत्युपदिशन्नाह
'यैः क्लिश्यसे' इति, यैराशयस्थैः-स्वचित्तकल्पितैर् बन्धन-बन्ध्वपत्ययशःप्रभुत्वादिभिः त्वं क्लिश्यसे-पापकर्मभिः क्लेशं यासीति, अत्र बन्धनानिबन्धनरूपाणि च तानि बन्धवश्च-स्वगोत्रीया, अपत्यानि च-पुत्र-पुत्र्यादीनि, यशांसि च दानाद्युत्थानि, प्रभुत्वानि च गृहनायकत्व-कुटुम्बनायकत्व-देशनायकत्वादीनि तानि, आदौ येषु तानि तथा तैः; अत्र आदिपदात् कलत्रादीनि ग्राह्याणीति, ते-तव तैर्बन्ध्वपत्यादिभिः पदाथै, इह-अत्र भवे च पुनः प्रेत्य-परभवे कियान्कियन्मात्रो, गुणः-उपकारः, साध्या ? - साधयितुं शक्य इति काकूक्त्या, च पुनरायुः-जीवितं च किं-कियन्मात्रमस्तीत्येवममुना प्रकारेणोक्तं त्वं विचारयस्वहृदि विभावयेति, - "यैः क्लिश्यसे त्वं-धनबन्ध्वपत्य' इति पाठे तु धनानि च बन्धवश्चेत्यादिद्वन्द्वः ।।१०.२२ ।।
रत्न.-अथ यदर्थं त्वं क्लिश्यसे, तैस्तव गुणो नास्तीति प्रत्युपदिशति -