________________
वैराग्योपदेशद्वारम्
१८९
करोषि हीति निश्चितं, यैः पापकर्मभिः, ते तवानन्ता - बहुकालमप्यन्तरहिता विपद :आपदो भवित्र्यो, भविष्यन्तीति भवित्र्य इत्यर्थः, तत्-तदा संभाविताभ्यःसंभावनाविषयीकृताभ्यः, ताभ्यो विपद्भ्यो भिया- भयेनाधुना- सांप्रतं किम् इति प्रश्ने भृशाकुलत्वं ? - भृशम् - अत्यर्थमाकुलत्वं व्यग्रत्वं दधसे ? इत्यन्वयः, दधि धारणे [हे.धा. ७४५] इत्यस्य दधसे इति प्रयोगः । भावार्थस्तु यदि त्वं पापकर्मफलं जानन्नपि पापकर्माणि कुरुषे तदा, शास्त्रादिश्रवणात् तत्कर्मफलभूताभ्यः संभावितविपद्भ्यः किं व्याकुलो न भवसीति ।।१०.२० ।।
रत्न. - अथ तदेव प्रकारान्तरेण कथयति
-
कर्माणि रे! जीव ! इति व्याख्या-रे ! इति निन्द्यसंबोधने जीव ! त्वं तानि कर्माणि करोषि, यैः कर्मभिस्ते-तव, विपदो - विपत्तयः अनन्ता - अन्तरहिता भवित्र्योभाविन्यः, तत्-तस्मात् कारणात्, अधुना-इह भवे ताभ्यः संभाविताभ्योऽपिचिन्तिताभ्योऽपि भृशाकुलत्वं किं दधसे ?, अपि तु परभवेऽपि विपदनुभवनसमये भृशाकुलत्वं दधिष्यसे इति भावः ।। १०.२० ।।
[२९१] ये पालिता वृद्धिमिताः सहैव, स्निग्धा भृशं स्नेहपदं च ये ते । यमेन तानप्यदयं गृहीतान्,
ज्ञात्वाऽपि किं न त्वरसे हिताय ? ।।१०.२१ ।।
धनवि - अथ पुनः परलोक भीतिं दर्शयन्नुपदिशति
,
'ये पालिता' इति, ये पुत्र - सेवकादयस्त्वया पालिता - हितप्रवर्त्तनादिना रक्षिताः, च पुनर्, ये भ्रातृ-भगिन्यादयस्ते - तवात्मना सहैव वृद्धिं शरीरपुष्टिम्, इताः- प्राप्ताः । च पुनर्ये तव भृशम् - अत्यर्थं स्निग्धा-मित्राणि च पुनर्ये पितृ-कलत्रादयः, ते-तव स्नेहपदं-प्रेमपात्रं, आसन्निति सर्वत्र योज्यं, तानपि सम्बन्धिनो यमेन - कृतान्तेन् अदयं-निर्दयं यथा स्यात् तथा गृहीतान्-स्वायत्तीकृतान् ज्ञात्वाऽपि साक्षाद् दृष्ट्वाऽपि श्रुत्वाऽपि वा हिताय तत्त्वत आत्मनः सुखोपायाय तपःसंयमाय, किम् इति प्रश्ने १. 'भीतं' मु० ।