________________
૧૮૮
श्रीअध्यात्मकल्पद्रुमे धनवि.-अथ सांसारिकसुखवाञ्छया धर्मकर्मपरिहारेण पापकर्मसु ये प्रवर्तन्ते तान् प्रत्युपदिशति -
'प्रगल्भसे' इति अरे! इति तिरस्कारपूर्वकं संबोधने, यस्य सुखस्या-ऽऽशयाअभिलाषेण पापकेषु-पापजनकेषु कर्मसु-प्राणातिपातादिषु व्यापारेषु प्रगल्भसेपण्डितो भवसि, तत्छम-सुखं अनितं-जीवितं विना न भवति, अत्र अनितमिति 'अन-श्वसक प्राणने' है.धा.१०८९-९०] इत्यस्य प्रयोगो द्वितीयान्तः, पुनस्तज्जीवितं द्रुतं-शीघ्रं विनश्वरं-विनाशशीलं विभावयन्-विचिन्तयन् दुर्गतिदुःखतो-नरकादिवेदनातः किम् इति प्रश्ने न हि बिभेषि ? . न भयं गच्छसीति ।।१०.१९ ।।
रत्न.-अथ सुखाशया पापकर्मसु मा धायं कुर्विति भङ्ग्योपदिशति -
प्रगल्भसे कर्मसु. इति. व्याख्या-अरे इत्याक्रोशार्थसंबोधने, आत्मन् ! पापकेषु कर्मसु, प्रगल्भसे-धृष्टो भवसि, कया ? - यस्य सुखस्याशया वाञ्छया, तत् त्वया शर्म-सुखं न 'विनाऽशित तत्-शर्मणो भोगग्रहणादित्यर्थः, चेति विशेषे, तत् सुखं द्रुतं-विनाशशीलं विभावयन् सन् त्वं हि निश्चितं दुर्गतीनां-तिर्यग्नरकादीनां दुःखतो-दुःखेभ्यः किं न बिभेषि?, अपितु भेत्तुं युक्तमित्यर्थः, द्रुतविनश्वरा-ऽल्पसुखाय कृतपापकर्मणः पापकर्मसमुत्थदुर्गतिदुःखेभ्यस्तव भयं कर्तुं युक्तमिति भावः ||१०.१९।। [२९०] कर्माणि रे जीव ! करोषि तानि,
यैस्ते भवित्र्यो विपदो ह्यनन्ताः | ताभ्यो भिया तद्-दधसेऽधुना न किं,
संभाविताभ्योऽपि भृशाकुलत्वम् ? ||१०.२०।। धनवि.-अथ यः शास्त्रश्रवणादिना पापकर्मकरणजनितविपद्भ्यो भीतिं प्राप्नोति पापकर्माण्यपि च न त्यजति, तं प्रत्युपदिशन्नाह -
'कर्माणि' इति, रे जीव ! यदि त्वं तानि कर्माणि सावद्यमार्गप्रवृत्तिलक्षणानि, १. 'विनाशितं' इति मूलत्वेनापि पाठः, विनानितं मु० ।