________________
वैराग्योपदेशद्वारम्
१८७
'दुःखम्' इति, यथाऽकामोऽपि निर्जरावाञ्छारहितोऽपि चतुर्गतिषु, बहुविधं - छेदन-भेदन-शीता-ऽऽतप-क्षुत् - तृट् - पारवश्यादि नानाप्रकारं दुःखं सहसे-क्षमसे, तथा चेद्-यदि कामं निर्जरावाञ्छासहितं यथा स्यात् तथा, करुणादिभावै:- मैत्रीप्रमोद-कारुण्य-माध्यस्थ्यपरिणामैः सहसि अत्र मैत्र्यादिस्वरूपं चेदम् -
[२८८] "परहितचिन्ता मैत्री परदुःखविनाशिनी तथा करुणा । परसुखतुष्टिर्मुदिता परदोषोपेक्षणमुपेक्षा ।।[ ]।। इति
तदाऽल्पीयसाऽपि-अतिस्तोकेनापि तेन सकामसहनेन, भवान्तरे- परभवे तवात्यंतिकी-पुनःप्रादुर्भावरहिता सकलदुःखनिवृत्तिः समस्तजन्म- जरा - मरणाद्यनेकदुःखोच्छित्तिरेव स्यात् ।।१०.१८।।
1
"
१. तवा ० मु० ।
.
,
रत्न.–अथात्मानं प्रत्यकामदुःखसहनाद् वरं सकामदुःखसहनमित्युपदिशति - दुःखं यथा.. इति व्याख्या - हे आत्मन् ! यथा त्वं न विद्यते कामः - इच्छा यस्य सः, अकामः सन् बहुविधमपि दुःखं सहसे, एकेन्द्रियादिजन्मस्वित्यर्थः, तथा त्वं कामं यथा स्यात् तथा चेद्यदि करुणादिभावैः- कृपादिपरिणामैः, आदिशब्दात् परदुःखनिवृत्ति - परसुखोत्पादनादिग्रहणं, सहसि क्षमसे, अथवा काममिति दुःखविशेषणं, सकाममित्यर्थः, तदा 'तेनाल्पीयसाऽपि सकामदुःखसहनेनात्यन्तिकीसकलानामेक-विंशतिभेदभिन्नानां दुःखानां निवृत्तिरेवेति निश्चयेन स्यादित्यर्थः, कस्मिन् -भवान्तरे पञ्चमाऽऽरकोत्पन्नस्यास्मिन् जन्मनि मुक्तिगमनानर्हत्वं तेन भवान्तरे इत्युक्तम्, 'षहि मर्षणे' [है.धा ९९०] इत्यस्य सहसे इति, षण् मर्षणे [है.धा १९८२ ] इति तु चुरादौ युजादेर्नवा [ सि. हे ३.४.१८ ] इति णिचो वैकल्पिकत्वात् सहसीति रूपमिति ।।१०.१८ ।
[ २८९] प्रगल्भसे कर्मसु पापकेष्वरे !,
यदाशया शर्म न तद् विनाऽनितम् । विभावयंस्तच्च विनश्वरं द्रुतं, बिभेषि किं दुर्गतिदुःखतो न हि ? ।।१०.१९ ।।