________________
१८६
श्रीअध्यात्मकल्पद्रुमे धनवि.-अथानन्तरोक्तं धर्मावसरमेव धर्मस्य दुर्लभतादर्शनेन दृढयति -
धनं च-कनकादि अङ्गं च-शरीरं, सौख्यं च-स्रक्-चन्दना-ऽङ्गना-ऽऽदिस्पर्शजन्यमनुकूलवेदनीयं, स्वजनाश्च-माता-पितृ-भ्रातृ-पुत्र-कलत्रादयः, ततो द्वन्द्वः, तान् धनाऽऽगसौख्य-स्वजनान्, त्यज-मुञ्च, च पुनः असूनपि-प्राणानपि त्यज, च पुनर् आर्हतं-जै धर्मं श्रुतसम्यक्त्वलक्षणं विरतिलक्षणं वा एकम्-अद्वितीयं न त्यज-मा मुञ्चेति । हि यतः कारणाद्, धर्मात्-तीर्थकृता प्रतिपादिताचाराद् भवे भवे जन्मनि जन्मनि, अमूनि धना-ऽङ्ग-सौख्य-स्वजन-प्राणलक्षणानि वस्तून्यर्थितानि-मनोऽभिलषितानि भवन्ति-स्युः; पुनर्द्वितीयवारमेष धर्मोऽमीभिः धना-ऽङ्गा-ऽऽदिभिर्दुर्लभो-दुष्प्रापोऽस्ति ।।१०.१७ ।।
रत्न.-अथैहिकं प्राप्तं धनादिकं मुक्त्वा, अप्राप्ताय तस्मै सुखाय कथं धर्म करोमि? इत्याशङ्कामपाकर्तुमाह -
धना-ऽङ्गसौख्य..इति. व्याख्या- हे आत्मन् ! धनं-द्रव्यम्, अङ्ग-शरीरं, सौख्यं-सुखं, स्वजना-बन्धवः, तान् तथा असू-प्राणान् त्यज त्यजेतिवीप्सायां द्विर्भावः, वीप्सा चात्यन्तं हेयतासूचनार्थं, यथा अरे सर्पः.. अरे सर्प.. इति, च पुनरेकमार्हतं धर्मं न त्यज, न त्यज इत्यत्र तु अत्यन्तमुपादेयतासूचनार्थं वीप्सावचनं, यथा अरे सुवर्णं.. अरे सुवर्णमिति । उभयत्रापि हेतुमाह-हि-यतः कारणाद धर्मादमूनिधनादीन्यर्थितानि-वाञ्छितानि भवे भवे-जन्मनि जन्मनि भवन्ति, पुनरिति विशेषे अमीभिर्धनादिभिरेष धर्मो भवे भवे दुर्लभो-दुष्प्राप इति ।।१०.१७ ।। [२८७] दुःखं यथा बहुविधं सहसेऽप्यकामः,
कामं तथा सहसि चेत् करुणादिभावैः । अल्पीयसाऽपि तव तेन भवान्तरे स्या
दात्यन्तिकी सकलदुःखनिवृत्तिरेव ।।१०.१८ ।। धनवि.-अथाकामनिर्जरातः सकामनिर्जराया विशेषफलं दर्शयन्नुपदिशति -
१. कुर्वन्नाह - मु० ।