________________
१८५
वैराग्योपदेशद्वारम्
[२८४] पुनः पुनर्जीव ! तवोपदिश्यते,
बिभेषि दुःखात् सुखमीहसे च चेत् । कुरुष्व तत् किञ्चन येन वाञ्छितं,
भवेत् तवास्तेऽवसरोऽयमेव यत्।।१०.१६ ।। धनवि.-अथ प्रमादपरिहारावसरमुपदिशन्नाह -
'पुनः पुनर्' इति हे जीव ! तव पुनः पुनः-वारंवारम्, उपदिश्यतेहितवचनमादिश्यते, चेद्-यदि दुःखाद् बिभेषि-भयं यासि, च पुनः सुखम् इष्टवेदनीयम्, ईहसे-वाञ्छसि, तत्-तस्मात् प्रमादपरिहारेण तत् किञ्चन-तपःसंयमादि सुकृतकर्म कुरुष्व-समाचर येन सुकृतकर्मणा तव वाञ्छितं-समीहितं भवेत्, यद्-यस्माद् अयमेव-मनुष्यभवा-ऽऽर्यदेशोत्तम-जातिसर्वेन्द्रियपटुता-शुद्धदेवगुरु-धर्मप्राप्ति-शास्त्रश्रवण-श्रद्धानादिसामग्रीसहितः प्रत्यक्षः, अवसरर-प्रस्तावो वर्त्तते, अत्रैवकार एतत्प्रस्तावातिरिक्तप्रस्तावप्रतिषेधक इति ।।१०.१६ ।।
रत्न.-अथात्मानं धर्मस्यायमवसरोऽस्तीति ज्ञापयति-पुनःपुनर् इति., व्याख्यारे जीव ! मया पुनःपुनस्तवोपदिश्यते-उपदेशो दीयते, किम् ? इत्याह-चेद्यदि त्वं दुःखाद् बिभेषि-भयमाप्नोषि तथा सुखमीहसे-वाञ्छसि । तत्-तर्हि किञ्चनापूर्वं सुकृतं कुरुष्व, येन सुकृतेन वाञ्छितं अर्थात् सुखमिति गम्यते भवेद्, यद्-यतो हेतोरयमेवावसरो-वेला आस्ते अर्थात् सुकृतस्येति । [२८५] "सज्झाय-झाण-तव-ओसहेसु उवएस-थुई-पयाणेसुं ।
संतगुणकित्तणेसुं न हुंति पुनरुत्तदोसा उ" || [आवश्यक नि.५/१८] || इति वचनात्, पुनःपुनरुपदेशदानेऽपि पुनरुक्तदोषो नैवेति ।।१०.१६ । । [२८६] धना-ऽङ्ग-सौख्य-स्वजनानसूनपि,
त्यज त्यजैकं न च धर्ममार्हतम् । भवन्ति धर्माद्धि भवे भवेऽर्थितान्यमून्यमीभिः पुनरेष दुर्लभः ||१०.१७ ।।