________________
१८४
श्रीअध्यात्मकल्पद्रुमे
कैः ? मेतिश्च बन्धश्च मृति-बन्धौ तयोर्दुःखानि तैः केचित् पङ्तगादयो मरणदुःखैर्हस्त्यादयस्तु बन्धनदुःखैरित्यर्थः, तद्वत् त्वमपि चिराय - चिरकालं शोच्यो भावी- भविता, प्रमादैरित्यत्रापि ज्ञेयमिति ।।१०.१४।।
-
[२८३] पुराऽपि पापैः पतिताऽसि दुःखराशी पुनर्मूढ ! करोषि तानि । मज्जन् महापङ्किलवारिपूरे,
-
शिलां निजे मूर्ध्नि गले च धत्से ।।१०.१५।।
धनवि.—अथ प्रमादानां पापरूपतां दर्शयन् तत्परिहारमुपदिशन्नाह
-
'पुरापि' इति, हे मूढ ! हे मूर्ख ! पुरापि पूर्वमप्येतद्भवेऽन्यभवे वा, पापैःविषय-कषायादि-लक्षणप्रमादैर्हेतुभूतैर्दुःखराशौ-दुःखसमूहे पतितासि - पतनकर्त्तासि, पुनस्तानि प्रमादाचरणलक्षणानि पापानि करोषि - आचरसि । एवं प्रमादाचरणं कुर्वन् किं करोषि ? - इति दृष्टान्तपूर्वकं दर्शयति- पङ्कोऽस्यास्तीति पङ्किलः, स चासौ वारिपूरश्च पङ्किलवारिपूरः महांश्चासौ पङ्किलवारिपूरश्च स तथा तस्मिन् महापङ्किलवारिपूरे, मज्जन्- ब्रूडन् निजे -स्वे मूर्ध्नि मस्तके गले चकण्ठे शिलाः-स्थूलोपलान् धत्से-धरसीति ।। १०.१५ । ।
रत्न.–अथ पूर्वं पापैः दुःखराशौ पतितोऽसि, अथापि मा पतेति दृष्टान्तेन ज्ञापयति
पुराऽपि पापैः इति., व्याख्या - हे आत्मन् ! पुरापि - पूर्वजन्मन्यपि पापैर्हेतुभिः, दुःखराशौ पतितोऽसि, हे मूढ ! पुनरिह - जन्मनि तान्येव पापानि करोषीति दृष्टान्तदानेन कथयति-हे जीव ! त्वं महान् पङ्किलः-पङ्कवान् यो वारिपूरस्तस्मिन् मज्जन्-ब्रूडन् शिलां निजे स्वकीये मूर्ध्नि मस्तके, च पुनर्गले - कण्ठे धत्सेदधासीति, ततस्त्वमेवं दृष्टान्तं सफलयसीति भावः ।।१०.१५ । ।
-
१. धनवि.-छेदनादिजं दुःखं स्वतन्त्रतया व्याख्याति, रत्नवि - मृति- बन्धयोः जातं, दुःखं इति मृतिबन्धयोः फलत्वेन व्याख्याति, वागुरादिभिः काभिश्चित् बन्धने सति छेदन-भेदन-क्षुधा तृषादीनि दुःखानि जायन्ते - अतो न तात्विको भेदोऽत्र वृत्त्योः।