________________
वैराग्योपदेशद्वारम्
षष्ठगाथावृत्तौ एतदर्थाऽन्वाख्यानदर्शनात् । तदेकदेशो यथा कामसेवनाद्याश्रवास्तु
[ २८१] प्रायः स्वजातिविष्ठासु, संमूर्च्छन्त्युरगेन्द्रियाः । स्वजातिलालासु पुनर्मूर्च्छन्ति चतुरिन्द्रियाः ।।[ ]||
[२८२] मूर्च्छासंज्ञानुभावेन, तेऽपि त्रि- चतुरिन्द्रियाः । सेवन्ते जन्तवो जन्तून् मलामृतकलाभवान् ।।[ ]||
१८३
इति वचनादसंज्ञिनां मैथुनसंज्ञानुभावादिना, संज्ञिनां तु वेदोदयादिना स्पष्टा एव, गजा हस्तिनीलुब्धा गजान्तरादीन् घ्नन्ति, मत्स्या गलामिषलुब्धा म्रियन्ते, शाल्यादिकणलुब्धाः पक्षिणो जाले पतन्ति, हरिण - सर्प - गजादयो गीत - वंशस्वरश्रवणरसलुब्धा प्रियन्ते, गजाश्च हस्तिनीलुब्धाः, गन्धलुब्धा भृङ्गग-कीटिकासर्पादयः, आमिषलुब्धाः समुद्रान्तर्गतप्रतिसंतापस्थलवासिजलमनुष्याः, 'बर्करभक्षणार्थं यन्त्रप्रविष्टव्याघ्रादयश्च, रूपलुब्धाः शलभादयश्च म्रियन्तेऽपि द्रव्यादिनिधिं सर्पा अधितिष्ठन्ति, निधौ दृष्टे खञ्जरीटा नृत्यन्ति, गोधेरक - शिवादयश्च शब्दायन्ते, कीटिकाद्या अपि कणान् सङ्गृह्णन्ति - इत्यादि, अत्र च दृष्टान्तदान्तिकयोजना स्पष्टैवेति ।।१०.१४।।
·
रत्न.–पुनरप्यकृतपुण्यस्य प्रमादिनो जीवस्य दृष्टान्तदानेन भावीनि दुःखानि कथयति-पतङ्ग-भृङ्गैण- खगा- हिमीन इति व्याख्या - हे जन्तो ! यथा पतङ्गःशलभो रुपमोहितो दीपशिखापाताद्, भृङ्गो गन्धमोहितो रात्रौ कमलकर्णिकायां बन्धनाद्, एणो-मृगः शब्दमोहितो बंधनात्, खगः - पक्षी कृत्रिमनीलपत्रवृक्षमोहितः पाशपतनाद्, अहिः-सर्पः शब्दादाहितुण्डिकवशपतनात्, मीनो-मत्स्यो मांसखण्डलुब्धो धीवरजालपतनात्, द्विपो- हस्ती हस्तिनीयोनिस्पर्शमोहितः कृतवंशकटकाच्छादितगर्तपतन-तृट्-क्षुत्-सहनात्, द्विपारिः सिंहः, पञ्जरमध्यमुक्ताजलोभात् पञ्चरपतनात्द्वन्द्वसमासे-पतङ्ग... द्विपारयस्ते प्रमुखा - आद्या येषां ते पतङ्ग... द्विपारिप्रमुखाः, प्रमुखशब्दादन्ये चित्रकादयो ग्राह्याः, एते प्रमादैः कृत्वा यथा शोचनीयाः स्युः,
१. 'बकरो' इति, सं. ।