SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ १८२ इति पूर्वोक्तोत्तराध्ययने एव एवं श्रीयोगशास्त्रेऽपि " [२७६] पयस्यगाधे विचरन्, गिलन् गलगतामिषम् । मैनिकस्य करे दीनो, मीनः पतति निश्चितम् ||[ इति तत्रैवोत्तराध्ययने एवं श्रीयोगशास्त्रेऽपि अथ स्पर्शनेन्द्रियलक्षणे प्रमादे सप्तमो द्विपदृष्टान्तो यथा [२७७] फासस्स जो गिद्धिमुवेइ तिव्वं, रागाउरे कामगुणेसु गिद्धे । करेणुमग्गावहिए व नागे, अकालियं पावइ से विणासं । । [ ]|| · श्रीअध्यात्मकल्पद्रु - [२७८] वशास्पर्शसुखास्वादप्रसारितकरः करी । ]।। इति, - आलानबन्धनक्लेशमासादयति तत्क्षणात् ।।[ ]।। इति । अथ पुनरपि रसनेन्द्रियविषयलक्षणे प्रमादेऽष्टमो द्विपारिदृष्टान्तो यथा [२७९] द्विपारातिरपि व्याघ्रो, मांसास्वादस्य लिप्सया । किरातैः क्षिप्यते क्लृप्तकूटले काष्ठपञ्जरे ।।[ इत्यर्थत उपदेशरत्नाकरे]।। अत्र प्रमुखग्रहणान्महिषादयः पञ्चेन्द्रिय द्वीन्द्रियादयोऽन्येऽपि यथासंभवं ग्राह्याः, अत्र महिषदृष्टान्तः स्पर्शनेन्द्रिये यथा [२८०] फासस्स जो गिद्धिमुवेइ तिव्वं, रागाउरे सीयजलावसन्ने । गाहग्गहीए महिसे व रन्ने, अकालियं पावड़ से विणासं । । [ ]|| इति पूर्वोक्त एवोत्तराध्ययने । अत्र पद्येऽष्टौ दृष्टान्ता साक्षाद् दर्शिताः, तत्र १-पतङ्ग २-भृङ्ग ३-एण ४-अहि ५-मीन ६-द्विप नामानः षट् दृष्टान्ताः श्रीउत्तराध्ययन-योगशास्त्रानुसारेण स्पष्टा एव, खग - द्विपारिनामानौ द्वौ दृष्टान्तौ तथाविधसंप्रदायाभावाद् ग्रन्थान्तरे साक्षादनुपलब्धेश्च संभावनया योजितौ स्तः, सति संप्रदाये ग्रन्थान्तरे वा साक्षात् तदुपलब्धौ च यथावद् योजनीयौ; न चैषा संभावना स्वचित्तमात्रकल्पितेतिवाच्यं, उपदेशरत्नाकरे द्वितीयतटे प्रथमाधिकार
SR No.022283
Book TitleAdhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2016
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy