SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ वैराग्योपदेशद्वारम् १९३ जानतोऽपि ग्रन्थकर्तुरिदमुदासीनं वचः, अथवा छद्मस्थत्वात् सम्यक्तया न जाने इत्यपि, तथेयताऽप्युपदेशेनाप्रतिबुध्यमानं जीवं प्रति निरादरतावचनं वा ।।१०.२८ ।। [२९५] शीतात् तापान्मक्षिका-कत्तृणादि स्पर्शाधुत्थात् कष्टतोऽल्पाद् बिभेषि । तास्ताश्चैभिः कर्मभिः स्वीकरोषि, श्वभ्रादीनां वेदना धिग् धियं ते ||१०.२५।। धनवि.-पुनः प्रकारान्तरेण विमर्श दर्शयन्नात्मैवात्मानमुपदिशति - 'शीतात्' इति, त्वम्, अल्पात्-स्तोकात् स्तोककालीनाद् वा, शीतात्शीतर्तुप्रभवाच्छैत्याच्च पुनस्तापाद्-उष्णतुप्रभवाद् धर्मतः, च पुनर्मक्षिकाकर्तृणादिस्पर्शाधुत्थात् कष्टाद् बिभेषि-भयं यासीति, अत्र मक्षिका प्रसिद्धा, कत्तृणं च-तृणविशेषः, ते आदौ येषां ते तथा तेषां, स्पर्श:-त्वगिन्द्रियग्राह्योऽनिष्टगुणविशेषः स आदौ येषां ते तथा तेभ्य उत्था-उत्थानं यस्य स तथा तस्मात् मक्षिकाकत्तृणादिस्पर्शाद्युत्थात्, कत्तृणादि-इति, अत्र आदिपदात् कर्करादिकर्कशवस्तुपरिग्रहः, स्पर्शादि-इति अत्र आदिपदाद् दूरस-दुर्गन्धादिपरिग्रहः, च पुनर्, एभिः प्रत्यक्षतः क्रियमाणैः कर्मभिः-पापव्यापारैस्, तास्ता जगत्प्रसिद्धाः श्वभ्रादीनाम्, आदिपदात् तिरश्चां वेदना-दुस्सहपीडाः स्वीकरोषि-अङ्गीकरोषीत्यन्वयः; तेन कारणेनाल्पकष्टाद् भीतस्य पापकर्मकरणेनाङ्गीकृत-नारकवेदनस्य ते-तव धियं-बुद्धिं प्रति धिग् अस्तु-तिरस्कारोऽस्तु ।।१०.२५ ।। रत्न.-अथ स्वल्पात् कष्टाद् बिभेषि महत्कष्टमङ्गीकरोषीत्युपदिशति - शीतात् तापात्..इति. व्याख्या-हे आत्मन् ! त्वं शीताद् बिभेषि-भयमाप्नोषि तथा तापात्, तथा मक्षिका कत्तृणानि च तान्यादौ येषां तानि मक्षिकाकत्तृणादीनि, तेषां स्पर्शाद्युत्थात्-स्पर्शादिजातात् कष्टतस्त्वं बिभेषि, किंलक्षणाद्? - अल्पाद्-अल्पतः, कुत्सितानि तृणानि कत्तृणानि-दुःस्पर्शानि दर्भादीनि, आदिशब्देनाऽवनतोन्नतभूमिकाप्रस्तरादिग्रहणं, चेति विशेषे, एभिर्जीवहिंसादिपापकर्मभिस्तास्ता
SR No.022283
Book TitleAdhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2016
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy