SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ श्रीअध्यात्मकल्पद्रुमे इति-रङ्क, द्वन्द्वसमासे उरभ्र... भिक्षुकास्ते आद्या येषां तानि तथा तैः, एतेषां निदर्शनानां विस्तरः श्रीउत्तराध्ययनलघुवृत्तितोऽवसेयो भावनीयश्चेति ।।१०.१३ ।। १८० [२६७] पतङ्ग-भृङ्गैण-खगा-हि-मीनद्वि-द्विपारि-प्रमुखाः प्रमादैः । शोच्या यथा स्युर्मृति-बन्ध-दुःखैश्चिराय भावी त्वमपीति जन्तो ! ।।१०.१४।। धनवि.—अथानन्तरोपदेशे 'सामान्यतः प्रमादः परिहर्त्तव्य' इत्युक्तम्, अथ च पञ्चेन्द्रियजन्यविषयरूपप्रमादविशेषपरिहारं दृष्टान्ताऽष्टकदर्शनपूर्वमुपदिशन्नाह - -'पतङ्ग' इति पतङ्गाश्च - शलभाः, भृङ्गाश्च षट्पदाः, एणाश्च - हरिणाः, खगाश्चशुकादयः पक्षिणः, अहयश्च - भुजङ्गाः, मीनाश्च - मत्स्याः, द्विपाश्च-गजाः, द्विपारयश्चसिंहाः, ततो द्वन्द्वः, ते प्रमुखा - मुख्या येषु ते पतङ्ग-भृङ्गैण-खगा-हि-मीन-द्विपद्विपारिप्रमुखाः प्राणिनो यथा येन प्रकारेण प्रमादैः पञ्चभिरष्टभिर्वा तत्फलभूतैश्च मृतिः- मरणं बन्धश्च-वागुरा-रज्जु-निगडादिनियन्त्रणं, दुःखं च - छेदन - भेदन- क्षुततृट्-ऽऽशीता-तपादिभिः प्रतिकूलवेदनीयम्, ततो द्वन्द्वः, तैर्मृतिबन्धदुःखैः शोच्याःशोचनीयाः स्युः, ‘यथा’इतिदृष्टान्तोपन्यासग्रहणादत्रेत्यमुना प्रकारेणेति दान्तिकोपन्यासः, तेनेति - अमुना प्रकारेण हे जन्तो ! त्वमपि प्रमादैर्हेतुभूतैस्तत्फल- भूतैश्च मृतिबन्धदुःखैश्चिराय-चिरकालं नरकादिषु शोच्यः- शोचनीयो भावी भविष्यसीत्यर्थः। अत्रायं भावः-प्रमादपतिताः प्राणिनो दुःखपात्रीभूताः सन्तः पतङ्गादिवत् सर्वे सर्वत्र शोचनीया भवन्तीति त्वं प्रमादं परिहरेति । अत्र पतङ्गादयश्चाष्टौ दृष्टान्ता निर्दिष्टाः । तत्र प्रथमं चक्षुर्विषयलक्षणे प्रमादे पतङ्गदृष्टान्तो यथा - [२६८] "रूवेसु जो गिद्धिमुवेइ तिव्वं, अकालिअं पावइ से विणासं । रागाउरे से जह वा पयंगे, आलोअलोले समुवेइ मच्चुं" [ ] इति श्रीउत्तराध्ययने प्रमादस्थाननाम्नि द्वात्रिंशदध्ययने एवं श्रीयोगशास्त्रेऽपि
SR No.022283
Book TitleAdhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2016
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy