SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ १७९ वैराग्योपदेशद्वारम् भूमौ चाण्डालपाटके चाण्डालस्य यौवनस्थां कन्यां पाणिग्रहणार्थं प्रार्थ्य, गृहजामातृत्वं च प्रतिपद्य, परिणीय चैकशय्यास्थौ पृथक् पृथक् पाटके विद्यां साधयामासतुः, तदनु यौवनमदोन्मत्ततया तुच्छजातितया निर्लज्जतया तया स्त्रिया हावभावालिङ्गनादिना क्षोभनायां क्रियमाणायामप्य-क्षोभ्येनैकेन षण्मासं यावन्निरतिचारब्रहमव्रतपालनेन सा जगज्जयिविद्या साधिता, अन्येन तु ब्रह्मव्रतभ्रष्टेन चाण्डालपुत्रीसंगत्या खेचरशेषविद्यावर्जितेन चाण्डालत्वं प्राप्य दुःखमनुभूतम् । अत्रायमुपनयो, यथा भ्रष्टविद्यासाधनविधिः खेचरो जगज्जयकारिविद्यासाधनसामग्रीप्राप्तावपीन्द्रियपारवश्यात् तत्फलाप्राप्या शोचति एवं त्वमप्यङ्गीकृतधर्मभ्रष्टः, कर्मजयकारिधर्मसामग्रीप्राप्तावपीन्द्रियपारवश्याद् धर्म-प्राप्तिफला-ऽप्राप्त्या शोचिताऽसीति निगमनमिति विद्याधरद्वयदृष्टान्तः । निर्भाग्यदृष्टान्तः-अथान्यदा केनचिन्निर्भाग्येन पर्यटता बह्वायाससाध्याद् यक्षाच्चिन्तामणिरत्नं प्राप्तम्। तदनु तेन समुद्रमार्गेण यानपात्रेण स्वगृहं गच्छता निर्धनेन धनप्राप्त्या मत्तेन, रत्नस्य कान्त्या चन्द्रेण समतां पश्यता, चक्षुरिन्द्रियपारवश्येन तद् रत्नं समुद्रे पातितं, तदनु स यावज्जीवं शोचति स्म । अत्रायमुपनयो, यथा स निर्भाग्यः स्वदारिद्र्यनाशकः, बह्वायाससाध्यदेवदत्तचिन्तामणिप्राप्तावपीन्द्रियपारवश्येन समुद्रपातितचिन्तामणिः, तत्प्राप्तिफलाप्राप्त्या शोचति तथा त्वमपि बहुसेवासाध्यगुरुप्रदत्तचिन्तामणिसमश्रीजिनधर्मप्राप्तावपीन्द्रियपारवश्येन धर्मभ्रष्टः, तत्प्राप्तिफलाप्राप्त्या बहु शोचिताऽसीति निगमनमिति निर्भाग्यदृष्टान्तः । इत्यादयः शोचनायां भावनीया इति ।।१०.१३।। रत्न.-अथैतदेवोत्तराध्ययनसूत्रगतदृष्टान्तैर्द्रढयति-उरभ्रकाकण्युदबिन्दु इति. व्याख्या-हे आत्मन् ! त्वं प्रमादैः कृत्वा, दुःखी सन्, परभवे बहु-घनं यथा स्यात् तथा शोचिताऽसि, शोकं कर्तासि, यतस्त्वं किंलक्षणः. ? - हारितं मर्त्यस्यमनुष्यस्य जन्म येन सः, कैः ? - निदर्शनैः-दृष्टान्तः, कैः ? - उरभ्रो-मेण्ढकः, काकिणी-रूपकाशीतितमभागरूपा, उदबिन्दुरिति-उदकबिन्दुः, आम्र इत्याम्रवातकी राजा, वणिजां त्रयी वणिक्त्रयी, शाटक इति-शकटानां वाहको वणिग्, भिक्षुक
SR No.022283
Book TitleAdhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2016
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy