________________
१७८
श्रीअध्यात्मकल्पद्रुमे तदनु तद्दरिद्रकुटुम्बकं स्वगताऽनवगमतादोषेण पायसभोजनाप्राप्त्या तन्मनोरथेनैव मृतम् ।
अत्रायमुपनयो, यथा-तद्दरिद्रकुटुम्बकं कलहकरणादिना श्वानेन नाशितं बह्वायासेन निष्पादितं पायसमप्राप्य शोचति, तथा त्वमपि निष्पुण्यः सन् पुण्यवद्गेहे धर्मकर्म क्रियमाणं, तत्फलं चानुभूयमानं दृष्ट्वा, कथञ्चिद् धर्मसामग्री प्राप्य तद् यादृशं तादृशं कुर्वन्नपि, मत्सरादिदोषेण कलहं कुर्वाणो, रागद्वेषाभ्यां तद्धर्मकर्मनाशात् तत्फलरहितः परभवे शोचिताऽसीति निगमनमिति दरिद्रकुटुम्बदृष्टान्तः ।
वणिग्द्वय दृष्टान्तः- एकस्मिन्नगरे प्राक्कृतकर्मणा क्षीणधनं वणिग्द्वयं वसति। तेन धनार्जनाय बहूपायेऽपि कृते, तदप्राप्त्या क्वचित् कस्यचिदुपदेशात् सप्रत्ययो यक्षो बह्वाराधनतः प्रसन्नीकृतः, तदनु तत्पार्श्वे धनयाचने । यक्षेणोक्तं-कृष्णचतुर्दशीरात्री शकटसामग्री कृत्वा, सावधानतया स्थेयं, रत्नद्वीपे युवां प्रापयिष्यामि, तत्र प्रहरद्वयं यावत् स्वस्वशकटं यथेष्टं रत्नमणिसुवर्णैः पूरणीयं, प्रहरद्वयानन्तरं स्वस्थानं प्रापयिष्यामीति । तदनु ताभ्यां तथेति प्रपद्य स्वस्वगृहं प्राप्य यथोक्तरात्रौ समग्रशकटसामग्री विधाय स्थितम, तदनु देवेन यथोक्तसमये समागत्य सशकटौ तौ रत्नद्वीपे मुक्तौ । तदनु तयोर्मध्यगेनैकेनाप्रमत्ततया रत्न-सुवर्णैः स्वशकटं भृतं, अपरेणापूर्वां सुखशय्यां प्राप्य सुप्तम् । तदनु देवेन स्वप्रतिज्ञानिहाय तौ सशकटौ स्वगृहे मुक्तौ । तदनु येन रत्नद्वीपं प्राप्य स्वशकटं भृतं, स प्रतिदिनं नवनवभोगसामग्र्या सुखी जज्ञे । येन सुप्तं, स परर्धिं दृष्ट्वा दृष्ट्वा दुःखी जज्ञे,
अत्रायमुपनयो-यथा स शयालुः शुद्धोपदेशकं पुरुषं प्रसन्नं च देवं सुसमयं रत्नद्वीपं च प्राप्येन्द्रियपरवशः सन् शकटसदृशमात्मानं धर्मधनेनापूरयन् दुर्गतिं गतः परेषां दिव्यर्धिं दृष्ट्वा शोचिताऽसीति निगमनम्, इति वणिग्द्वयदृष्टान्तः।
विद्याधरद्वयदृष्टान्तः-अथान्यदा वैताढ्यवासिनौ विद्याधरौ सुबहुसेवया परंपरागतदुष्करसाधनविधिपूर्वकं स्वपितृदत्तजगज्जयिविद्यासाधनाय भूचरौ भूत्वा,