________________
वैराग्योपदेशद्वारम्
पाणस्तद्भक्त्या प्रीत ऊचे किं ते ददे ?, तदा स ग्राम्य ऊचे - त्वत्प्रसादेनाहमप्येवं भोगान् भुञ्जे । तेन-किं विद्यां लासि उत विद्याभिमन्त्रितं घटम् - इत्युक्ते स विद्यासाधनादिकष्टभीरुतयोचे - अभिमन्त्रितं घटं देहि । तेनाभिमन्त्र्य घटो दत्तः । स तं लात्वा स्वग्राममेत्य सौधं विकुर्व्य बंधुयुग् यथेच्छं भोगान् भुङ्क्ते । तेनान्यैश्च तदा सर्वे स्वजीवनोपायाः शिथिलिताः गवाद्याश्चाऽसारिताः गताः । सोऽन्यदाऽतिहर्षाद् घटं स्कन्धे कृत्वा पीतासवोऽनृत्यद्, तदा प्रमादात् पतितो घटो भग्नः, स विद्याकृतोपभोगो नष्टः, पश्चात् स स्वजनैः सह परप्रेष्यतादिदुःखान्यनुभवन्, चेद् घटविद्या ततो गृहीता स्यात्, तदा भव्यमभविष्यदिति शोचतीत्यादि ।
१७७
अत्रायमुपनयो- यथा स ग्राम्यभिक्षुकः पृथिव्यां परिभ्रमन् संप्राप्तकामकुम्भोऽपि मद्यपारवश्यात् पतितकामकुम्भः परप्रेत्यताद्यैर्दुःखान्यनुभवन् शोचति तथा त्वमषि संसारे भ्रमन् संप्राप्तश्रीजिनधर्मोऽपि मद्यादिप्रमादपारवश्यात् त्यक्तश्रीजिनधर्मो हारितमर्त्यजन्मा नारकादिदुःखान्यनुभवन् शोचिताऽसीति निगमनम् ।
इत्येवं सप्त दृष्टान्ता भाविताः । तत्र पूर्वदृष्टान्तपञ्चकं श्रीउत्तराध्यनसप्तमौरश्रीयाध्ययनानुसारेण, शाकटनामा षष्ठो दृष्टान्तः श्रीउत्तराध्ययनपञ्चमाकाममरणीयाख्याध्ययनानुसारेण, भिक्षुकनामा सप्तेमो दृष्टान्तश्च श्रीउत्तराध्ययनषष्ठचुल्लकनिर्ग्रथीयाध्ययनानुसारेण, अत्र भाविताः, सुधिया स्वधिया परम्परया वा यथासंप्रदायं प्रकारान्तरेणापि सम्यग् भावनीयाः ।
अत्र आद्यपदेनान्येऽपि दृष्टान्ताः श्रीउत्तराध्ययनानुसारेणाऽत्र भाविताः । [दरिद्रकुटुम्ब दृष्टान्तः] यथा क्वचिद् ग्रामे दरिद्रकुटुम्बं वसति, तस्य कस्मिंश्चित् पर्वणीभ्यगृहेषु पच्यमानं भुज्यमानं च पायसं दृष्ट्वा तद्भोजनमनोरथे समुत्पन्ने, तन्मध्यगेन केनचिद् यादृशे तादृशे पयसि केनचित् तन्दुले केनचिद् घृते, केनचिन्मधुधूलिप्रमुखे मृष्टद्रव्ये याचिते प्राप्ते सति यादृशे तादृशे पायसे निष्पन्ने सति सर्वैरपि याचितद्रव्यानुसारेण भागमार्गणे कृतेऽज्ञानित्वेन परस्परं विवदमानेषु राजद्वारं गतेषु तत् पायसं सर्वत्र सञ्चरद्भिः श्वानैर्भक्षितम् । १. खाण्ड इति प्रतिटीप्पणी । २. 'मृष्ट' इति ह.प्र. पाठः ।