________________
१७६
श्रीअध्यात्मकल्पद्रुमे स्थिताः । तत्रैको भोजना-ऽऽच्छादनस्तोकव्ययो द्यूत-मद्य-मांसादिव्यसनवर्जितो युक्त्या व्यवहरन् भूयो लाभं लेभे, द्वितीयस्तु मूलमक्षिपन् लाभं भोजनाऽऽच्छादन-माल्य-भूषादिषूपभुङ्क्ते, न चात्यादरेण व्यवहरते, तृतीयस्तु न किंचिद् व्यवाहरत्, किंतु द्यूत-मद्य-मांस-वेश्या-गन्ध-माल्य-ताम्बूल-शरीरसत्क्रियाभिरल्पेनैव कालेन सर्वं द्रव्यं भक्षितवान् । ततस्त्रयोऽपि यथोक्तकाले स्वपुरमागताः । तत्र यश्छिन्नमूलः स पितृभ्यां निष्कासितो जननिन्द्यः प्रेष्य एव जात इत्यादि ।
अत्रायमुपनयो-यथा तृतीयो वणिक् पञ्चेन्द्रियपरवशः सन् लाभमनिच्छन् भोगादि भुञ्जन् मूलव्ययेन गृहमागतः पितृभ्यां निष्कासितो जननिन्द्यः प्रेष्यतां प्राप्तः सन् शोचति तथा त्वमपि पूर्वभवात् सुकृतं लात्वा समागतः सन्, सकलसामग्री प्राप्य प्रमादपरवशः सन्, भोगाद्युपभोगं स्पृहयन् पारलौकिकसुखोपायमनिच्छन्, प्राक्तनसुकृतव्ययेन दुर्गतिं गच्छन् शोचिताऽसीति निगमनम् ।
अथ षष्ठः शाकटदृष्टान्तो यथा-कश्चिच्छाकटिकः समविषममार्गज्ञाता सममुपलादिरहितं महापथं त्यक्त्वा विषममुपलादिसंकुलं मार्गं गन्तुमुपक्रान्तः, तदाऽक्षे भग्ने शोचति यथा धिग् मां यज्जानन्नप्यपायमापमित्यादि ।
अत्रायमुपनयो-यथा स शाकटिकः सम-विषमभूमिभागं जानन्नपि विकथादिपारवश्यादक्षे भग्ने शोचति तथा त्वमपि पुण्य-पापादिकं जानन्नपि विकथादिप्रमादपरवशः सन्, भ्रष्टसम्यगदर्शन-ज्ञान-चारित्रो दुर्गतौ गच्छन् 'धिग् मां यज्जानन्नप्यहं दुर्गतौ यामि'इत्यादि शोचिताऽसीति निगमनम् ।
अथ सप्तमो भिक्षुकदृष्टान्तो यथा-एक ग्राम्यो दारिद्र्येण गृहान्निर्गत्य पृथ्वी परिभ्रमन् कुदैवयोगाद् भिक्षाया अपि अप्राप्त्या, पुनर्गृहं प्रति व्यावृत्तः सन्नेकस्मिन् ग्रामे पाणपाटकपार्श्वे देवकुले रात्रौ स्थितः । ततो देवकुलादेकः पाणश्चित्रघटहस्तो निर्गत्यैकदेशे स्थित्वा घटमूचे-शीघ्रं गृहं कुर्वित्युक्ते गृहं जातम्, एवं यद्यत् सोऽवक् तत् तद् घटोऽकरोद्, यावच्छय्यायां सः स्त्रीभिः सह भोगान् भङ्क्ते, प्रातश्च सर्वं संजते । तदा स ग्राम्यस्तद् दृष्ट्वा दध्यौमुधाऽहं मामभ्रमं, अथैनं सेवे इति विचिन्त्य स तमेवाश्रयत । स च १. चाण्डलपाटके. इत्यर्थः ।