________________
वैराग्योपदेशद्वारम्
१७५
प्रापितः, तत्राऽपीतपयाः स्वग्रामसीमसत्ककूपोपकण्ठगतदर्भाग्रभागवर्त्ती जलकणो मा पतत्वितिधिया तत्प्राप्तये याचितदेवेन स्वस्थानं प्रापितः । तत्र निर्गलितजलकणं वीक्ष्य अपूरितस्वप्रतिज्ञं स्वस्थानप्राप्तं पुनः क्षीरसमुद्रादिप्रापणाप्रवणं च तं देवं मत्वा पिपासया कण्ठगतप्राण उभयतो भ्रष्टः शोचतीत्यादि ।
अत्रायमुपनयो, यथा स ग्रामिको देवसान्निध्यतः क्षीरसमुद्रं प्राप्य तत्रापीतपया लालसात उदबिन्दुद्देशेन धावन्नप्राप्तोदबिन्दुर्मुक्तक्षीरसमुद्रश्च सन्नुभयतो भ्रष्टः शोचति, तथा त्वमपि दैवयोगात् प्राप्ततपःसंयमः, तदाराधनमन्तरेण प्रमादत ऐहिकसुखोद्देशेन धावन् अप्राप्तैहिकसुखो मुक्तपारलौकिकसुखोपायभूततपःसंयमश्चोभयतो भ्रष्टो हारितमर्त्यजन्मा शोचिताऽसीति निगमनम् ।
अथ चतुर्थ आम्रदृष्टान्तो यथा - कश्चिद् राजा अतिशयेनाम्रप्रियः, आम्राजीर्णेनैव संजात- विशूचिको महावैद्यैर्महता यत्नेन पटूकृतः पुनराम्रभ्रक्षणे मरिष्यसीति विज्ञप्तः, तच्छ्रवणमात्रादेव स्वदेशे विहिताम्रवणोच्छेदः, अन्यदा प्रधानेन सहाश्वापहृतोऽटव्यां प्राप्तः, सहकारच्छायायां विश्रान्तः, तदधः पतितानि सुखास्वादान्याम्रफलानि गृह्णन् प्रधानैर्वार्यमाणोऽपि स्पर्शलाम्पट्यतः करे कृत्वा परामृशन्, क्रमेण गन्धलाम्पट्यतो जिघ्रन् रसलाम्पट्यतश्चास्ये क्षिप्त्वा गिलन् म्रियमाणः शोचतीत्यादि ।
अत्रायमुपनयो, यथा स राजा इन्द्रियपरवशस्सन्नाम्रास्वादलुब्धः आम्रफलास्वादं कुर्वन् अप्राप्ततदास्वादानन्दो राज्य - जीवितयोराशापरित्यक्तो म्रियमाणः शोचति, तथा त्वमपीन्द्रियपरवशः सन् प्रमादात् कामभोगसुखलुब्धः कामभोगे प्रवर्त्तमानो गतसंयमजीवितराज्यो हारितमर्त्यजन्मा उभयतो भ्रष्टो म्रियमाणः शोचिताऽसीति निगमनम् ।
अथ पञ्चमो वणिग्दृष्टान्तो यथा - एकस्य वणिजस्त्रयः पुत्राः, तेन तेषां कार्षापणानां सहस्रं सहस्रं दत्तं, उक्ताश्चैवम् - एतावता द्रव्येण व्यवहृत्य इयता कालेनागन्तव्यम् । ततस्ते 'तन्मूलं लात्वा स्वपुरान्निर्गताः, पृथक् पृथक् पत्तनेषु
१. 'ते मूडी' इत्यर्थः, सं. ।