________________
१७४
श्रीअध्यात्मकल्पद्रुमे समागते, तमुरभ्रं हत्वा मांसखण्डानि कृत्वा पक्त्वा च स्वामिना सहैव प्राघूर्णकेन भुक्तम्, [तद्] दृष्ट्वा स वत्सस्तृषितोऽपि भयेन मातुः स्तन्यं नैच्छत, तदा मात्रोचेवत्स! किं भयभीतो मम क्षरत्पयसोऽपि पयो न पिबसि ?, तदा वत्सोऽवग्मातः ! स उरभ्रः प्राघूर्णकागमनेऽग्रे तेषां निर्गतजिह्वस्तरलनेत्रो विस्वरं रसन् हतो भक्षितश्च, तद्भयान्मे कुतः पयःपानेच्छा ?, तदा मात्रोचे-वत्स ! मया ते तदैवोचे-आतुरचिह्नान्येतानि, एष तेषां विपाकः प्राप्त इत्यादि, ___ अत्रायमुपनयो-यथा उरभ्रो जीवितेच्छया यथेष्टं खादन् पुष्टः सन् प्राघूर्णके आगते हारितजीवितः सन् शिरश्छेदादिक्रियायां क्रियमाणायां विस्वरं रसति तथा त्वमपि प्रमादैर्जीवितेच्छया यथेष्टं विचरन् पापैः पुष्टः सन् स्वायुःपूर्ती हारितमर्त्यजन्मा सन्नरकादिदुर्गतौ गच्छन् बहु शोचसीति निगमनम् ।
अथ द्वितीयः काकिणीदृष्टान्तो, यथा-एकेन द्रमकेण भृतिं कुर्वता कार्षापणानां सहस्रमर्जित्वा स्वगृहागमनाय प्रस्थितेन शंबलार्थमेकरूपकस्य काकिणीः कृत्वा दिन दिनेऽभुञ्जत, अन्यदा मार्गे क्वाऽप्येका काकिणी विस्मृता, सार्थे प्रस्थिते मार्गे गच्छन् स द्रमकस्तां स्मृत्वा दध्यौ-मा मम रूपकान्तरभेदो भूयादिति स्वां वासनिकामेकान्ते संगोप्य काकिण्यर्थं निवृत्तः, काकिणी त्वन्येन हृता, वासनिकापि केनचित् संगोप्यमाना दृष्टा हृता, स तूभयभ्रष्टो गृहे गत्वा क्षुधा पीड्यमानो जनैश्च परिभूयमनोऽशोचदित्यादि ।
अत्रायमुपनयो, यथा-स द्रमकः समुपार्जितकार्षापणसहस्रः आत्मनः स्मृतिभ्रंशदोषेण विस्मारितकाकिणीको लोभेन तदर्थं प्रतिगच्छन् गतकाकिणीको गतवासनिकश्चोभयभ्रष्टो, गृहे गत्वा क्षुधा पीड्यमानो जनैः परिभूयमानश्च शोचति, तथा त्वमपि गृहीतसंयमः स्वीयान्तरायदोषेण पूर्वमप्राप्तकामभोगः प्रमाददोषेण पुनस्तमेव प्रार्थयमानश्चारित्रं मुक्त्वा कामभोगे प्रवर्त्तमानोऽप्राप्तकामभोगो गतचारित्रश्चोभयभ्रष्टः सन् नरके गच्छन् दुःखीभवन् शोचिताऽसीति निगमनम् ।
अथ तृतीय उदकबिन्दुदृष्टान्तो, यथा-कश्चित् तृषार्तस्तुष्टेन देवेन क्षीरसमुद्रं
१. 'वांसलिका' इति मु० ।