________________
वैराग्योपदेशद्वारम्
१७३
नाशितं मत्र्त्त्यजन्म-मनुष्यभवो येन स तथा दुःखी - नारकादिदुर्गति-दुःखवान् सन् उरभ्र-काकिण्युदबिन्दुका-ऽऽम्र-वणिक्त्रयी-शाकटभिक्षुकाद्यैः निदर्शनैः दृष्टान्तैस्त्वं बहु-भूयो यथा स्यात् तथा शोचिताऽसि पश्चात्तापकर्त्ताऽसीत्यर्थः । अत्र उरभ्रश्चएडकः, काकिणी च-रूपकाशीतितमो भागः, क्वचित् तु विंशति'वराटकप्रमाणको नाणकविशेषः, लिङ्गानुशासनविवरणे तु 'काकिनिर्माषचतुर्भागः कपर्दश्चतुर्भागो वा [] इति, उदबिन्दुश्च - दर्भाग्रभागवर्त्ती जलकणः 'उदकस्योद' [सि.हे.३३-१०४] इत्यनेन सूत्रेणोदबिन्दुरितिसिद्धेः; आम्रश्च - सहकारः, वणिक्त्रयी चवाणिज्यार्थविनिर्गत-वणिग्जनत्रितयी, शाकटश्च - शाकटिकः शकटखेटक इतियावत्, भिक्षुश्च - भिक्षाजीविक, ततो द्वन्द्वः, ते आद्याः - प्रथमा येषां तानि तथा तैः उरभ्र-काकिण्युदबिन्दुका ऽऽम्रवणिक्त्रयी - शाकट - भिक्षुकाद्यैः, अत्राद्यपदेन यः कश्चन स्वहितकरणसमयेऽसावधानः पश्चात् पश्चात्तापरः स ग्राह्यः अत्रायमाशयःप्रमादपारवश्यादकृतसुकृतो मनुष्यभवभ्रष्टो दुर्गतिं गतः, एतैर्दृष्टान्तैः पश्चात्तापकर्त्ता भविष्यसीति, अस्मिन्नेव भवे तथा सुकृतं कुरु यथाऽग्रेऽपि सदानन्दोदयो भविता । अत्र प्रथममुरभ्रदृष्टान्तो यथा - कस्मिंश्चिद् ग्रामे कस्यचिद् गेहे एकोऽजोऽभ्यागतार्थं पोष्यते, स च पुष्टाङ्गः सुस्नातः कृतहारिद्र्याद्यङ्गरागो लाल्यमानः पाल्यमानः पीनश्च तं तथा दृष्ट्वा कोऽपि वत्सो मात्राऽपत्यस्नेहेन गोपितं गोदुहापि दयया मुक्तं क्षीरं नापात् मात्रा च पृष्टो रोषादित्याचष्टौअम्ब ! अयमजो यथेष्टौदन- यवसाद्यैर्नानालङ्कारैश्च पुत्र इव मान्यते, अहं तु मन्दभाग्यः शुष्कतृणान्यपि पूर्णानि सुसमये न लभे, पानीयमपि मां सुसमये कोऽपि नो पाययेत्, न कोऽपि मां लालयेत्, तदा मात्रोचे-वत्स !
·
[२६६] 'आउरचिण्णाइं एयाइं जाई चरति नंदिओ ।
सुक्कत्तणेहिं लाढाहि, एयं दीहाउलकुखणं [
1 "यथाऽऽतुरो मर्तुकामो यन्मार्गयति तत् पथ्यमपथ्यं वा दीयते, पुष्पाद्यैरर्च्यते, एवमस्याप्यजस्य पोषोऽर्चा च वध्यमण्डनमिव, यदा चैष घातयिष्यते तदा त्वं द्रक्ष्यसि, ततो वत्सस्तथैव स्थितः । ततस्तस्मिन्नुरभ्रे पुष्टे जाते प्राघूर्णके च १. कपर्दः इति टीप्पणीपाठः । २. घासः तृण इति टीप्पणीपाठः ।