________________
१७०
[२५९] तिव्वयरे उ पओसे सयगुणिओ सयसहस्सकोडिगुणो ।
कोडाकोडिगुणो वा हुज्ज विवागो बहुतरो वा [ १७८] ।।१०.१०।।
रत्न.–अथात्मानं परपीडनप्रसक्तमवेत्य प्रतिबोधायाह- किमर्दयन्.. इति व्याख्याहे आत्मन् ! त्वत्तो लघून् - बलेन शरीरेण वा तुच्छान्, अङ्गिनः प्राणिनः प्रति निर्दयं यथा स्यात् तथा अर्दयन् पीडयन्, हीति खेदे प्रमोदतो - हर्षतः कर्मसु अर्थात् पापकर्मसु मृगयादिषु त्वं किं विचेष्टसे ? - विरुद्धां चेष्टां करोषि, अपि तु मा विचेष्टस्व, यद्-यस्मात् कारणात्, एकशोऽपि - एकवारमपि अन्येषां कृतमर्दनंपीडनं येन सोऽङ्गी-प्राणी भवे- संसारेऽनन्तशः - अनन्तवारानर्दनं- पीडनं सहति, यत उक्तम् [उपदेशमालायाम्]
-
श्रीअध्यात्मकल्पद्रुमे
[२६०] "तिव्वयरे से पओउरे सयगुणिओ सयसहस्सकोडिगुणिओ अ । कोडाकोडिगुणो वा हुज्ज विवागो बहुतरो वा [१७८] इति।।१०.१०।।
[२६१] यथा सर्पमुखस्थोऽपि, भेको जन्तूनि भक्षयेत् । तथा मृत्युमुखस्थोऽपि,
-
किमात्मन्नर्द्धसेऽङ्गिनः ? ।।१०.११ ।।
धनवि . – अथानन्तरोक्ते एव परार्दने दृष्टान्तदर्शनपूर्वकं बीभत्सतां दर्शयंस्तन्निवृत्ति-मुपदिशति
'यथा' इति यथेति दृष्टान्तोपन्यासे, सर्पमुखस्थः अहिवदनगतोऽपि भेको - मण्डूको जन्तूनि - जलस्थलगतप्राणिनो भक्षयेत् खादयेत्, आत्मन् ! तथा तेन प्रकारेण मृत्युमुखस्थो-दिनं दिनं प्रत्यायुषःक्षीयमाणत्वात् कृतान्तवदनप्राप्तोऽप्यङ्गिनःप्राणिनः किमिति प्रश्ने ? अर्द्धसे - पीडयसीत्यर्थः, जन्तुशब्दः पुं- नपुंसकलिङ्गे
।।१०.११।।
१. गुणो० मु० । २. जायते....'कृसि -कमि' [उणादि ७७३ ] - इति तुनि जन्तुः पुं-क्लीबलिङ्गः [अभि.चिन्ता.-१३६६-स्वोपज्ञवृत्तिः]