________________
१७१
वैराग्योपदेशद्वारम् रत्न.-एतदेव दृष्टान्तने दृढयति -
यथा सर्पमुखस्थोऽपि. इति, व्याख्या-यथेति दृष्टान्तोपन्यासे सर्पमुखस्थोऽपि भेको-मण्डूको जन्तूनि-क्षुद्रजीवान् भक्षयेत्-अश्नीयात्, तथेत्युपनये, हे आत्मन ! मृत्युमुखस्थोऽपि त्वमङ्गिनः-प्राणिनः प्रति किमर्दस ? - व्यथसे, अपि तु माऽर्दस्वेति, अर्थतो युग्मम्" ।।१०.११।।
[२६२] आत्मानमल्पैरिह वञ्चयित्वा,
प्रकल्पितैर्वा-तनु-चित्तसौख्यैः । भवाधमे किं जन ! सागराणि,
सोढाऽसि ही नारकदुःखराशीन् ? ||१०.१२।। धनवि.-अथानन्तरोक्तोपदेशे 'परार्दनं न कर्त्तव्यम्' इत्युक्तम्, तेन परार्दनजन्यस्य किञ्चिदृश्यमानसुखस्य तुच्छतां परभवे चानन्तदुःखहेतुतां च दर्शयन् तन्निवृत्तिमुपदिशति -
'आत्मानम्' इति ही इति खेदे, हे जन ! इह भवे मनुष्यजन्मनि, अल्पैःस्तोकैः स्तोककालैर्वा, वा-अथवा प्रकल्पितैः-आरोपितैः परमार्थतोऽसुखत्ववति पान-भोजन-ललनाऽलिङ्गनादौ सुखमिदमिति चिन्तनैस्-तनुचित्तसौख्यैः-कायिकमानसिकसुखैर्-आत्मानं-स्वं वञ्चयित्वा-विप्रतार्य, भवाधमे-भवेषु-चतुर्गतिलक्षणेषु संसारेष्वधमे-नीचे नरकभवे इत्यर्थः, सागराणि सिद्धान्तप्रतीतानि यावत्, नारकदुःखराशीन्-नरक-सत्कदुःखसमूहान् किमिति प्रश्ने, सोढाऽसि ? - क्षन्ताऽसीत्यन्वयः,
अत्राऽसुखत्ववति पानभोजनादौ सुखमिदमित्यारोपे भर्तृहरिणाऽपि वैराग्यशतके प्रतिपादितं, यथा - [२६३] "तृषा शुष्यत्यास्ये पिबति सलिलं स्वादु सुरभि,
क्षुधातः सन् शालीन् कवलयति शाकादिवलितान् । १. दृष्टान्तदानेनाह - मु० ।