________________
___१६९
वैराग्योपदेशद्वारम्
रत्न.-अथ जीवं प्रति परेभ्योऽभिभूतौ सत्यामीÜ मा कुर्विति प्रतिबोधयति
पदे पदे जीव ! - इति. व्याख्या-हे जीव ! त्वं पदे पदे स्थाने स्थाने परेभ्यः, समर्थविशेषणाद् विशेष्यं लभ्यते इतिन्यायाज्जनेभ्यः, परा:-प्रकृष्टा अभिभूती:-अभिभवान् पश्यन् त्वं किमीर्ण्यसि ? - ईयां करोषि, त्वं किंलक्षणः.? - अधमो-नीचः, पुण्यरहितत्वादिति, तात्मानं-स्वं न विद्यते पुण्यं यस्य स तं किं नावैषि ?, न जानासि, अपि तु आत्मानमपुण्यमेवाऽवैहि, वा पुनरात्मानमपुण्यमवेत्य हि निश्चितं पुण्यमेव किं न तनोषि ?, एवकारोऽन्यव्यवच्छेदार्थः, अथवा परेभ्यः किमीर्ण्यसीति व्याख्येयं तदा परेभ्य इति चतुर्थीबहुवचनम् ।।१०.९।।
[२५७] किमर्दयन् निर्दयमङ्गिनो लघून्,
विचेष्टसे कर्मसु ही प्रमादतः ? | यदेकशोऽप्यन्यकृतार्दनः सह
त्यनन्तशोऽऽप्यङ्ग्ययमर्दनं भवे ।।१०.१०।। धनवि.-अथानन्तरोपदेशे पुण्यकरणमुपदिष्टं, तेन पुण्यकरणप्रतिपक्षे पापकरणेऽनिष्टफलं दर्शयन्नुपदिशति -
'किमदर्यन्' इति, ही इति खेदे, त्वं प्रमादतो-मद्यादिपञ्चविधाद्, अज्ञानाद्यष्टविधाद् वा लघून्-आत्मनोऽणून् बादरपृथ्वीकायिकादीन् अङ्गिनोदेहिनो निर्दयं-निष्कृपं यथा स्यात् तथाऽसमञ्जसवृत्त्येत्यर्थः अर्दयन्-पीडयन्, कर्मसु-कृष्यादिव्यापारेषु किमिति वितर्कप्रश्ने विचेष्टसे ? - प्रवर्त्तसे, यद्यस्माद् एकश:-एकवारम् अन्यकृतार्दनो-विनिर्मितपरपीडः, अयं परपीडाकारी अङ्गी-प्राणी भवे-संसारे अनन्तश:-अनन्तवारम्, अर्दनं-पीडनं सहति-तितिक्षते, यदुक्तम् - [उपदेशमालायाम्] [२५८] वह-मारण-अब्भक्खाणदाण-परधणविलोवणाईणं ।
सव्वजहण्णो उदओ दसगुणिओ इक्कसि कयाणं [१७७] ।।