________________
૧૬૮
श्रीअध्यात्मकल्पद्रुमे ___ रत्न.-अथात्मनोऽयुक्तवाञ्छकत्वेन वातूलतां निरूपति-गुण-स्तुतीर् इति. व्याख्याहे आत्मन् ! त्वं निर्गता लौकिक-लोकोत्तरभेदभिन्ना गुणा-औदार्य-धैर्य-शौर्यादयो ज्ञान-दर्शन-चारित्रादयश्च यस्मात्, एवंविधोऽपि सन् गुणानां स्तुतीः-स्तवान् वाञ्छति, तथा पुण्यं विनापि सुखानि प्रतिष्ठा-गौरवं ते आदौ यस्य तत्, सुखप्रतिष्ठादि प्रति वाञ्छसि, आदिशब्देन लक्ष्म्यैश्चर्यादिग्रहणं, तथा यम-नियमप्रभृत्यष्टाङ्गयोगं विनापि सिद्धी:-अष्टकर्मक्षयलक्षणाः प्रति वाञ्छसि, बहुवचनमष्टकर्मक्षयापेक्षया, सिद्धिमिति पाठे तु मोक्षमिति, अथवा - [२५५] "लघिमा वशितेशित्वं, प्राकाम्यं महिमाऽणिमा।
यत्र कामावसायित्वं, प्राप्तिरैश्चर्यमष्टधा' ||१|| [अभि.२०२] इति अष्ट सिद्धीः प्रति वाञ्छसीत्यपि ज्ञेयं, तर्हि हे आत्मन् ! तवेयं वातूलता-वातरोगित्वं काऽप्यदृष्टपूर्वा नवा-नवीनैवास्ति, कारणं विना कार्यस्पृहयालुत्वं वातकित्वमेवेति भावः ||१०.८।। [२५६] पदे पदे जीव ! पराभिभूतीः,
पश्यन् किमीग्रस्यधमा परेभ्यः ? | अपुण्यमात्मानमवैषि किन्न ?,
तनोषि किंवा नहि पुण्यमेव ? ||१०.९।। धनवि.-अथानन्तरं 'पुण्यं विना सुखप्रतिष्ठादि न भवति'इत्युक्तम्, तेनार्थात् पुण्याभावे पराभवो भवतीति दर्शयन् पुण्यमेव करणीयमित्युपदिशति -
'पदे पदे' इति हे जीव ! - हे प्राणिन् ! त्वमधमो-निष्पुण्यः सन्, पदे पदेस्थाने स्थाने पराभिभूती:-परेभ्योऽभिभूती:-पराभवान्, पश्यन्-विलोकयन्, परेभ्य:आत्मव्यतिरिक्तेभ्यः किं-किमर्थम्-ईय॑सि ? - क्रुध्यसीत्यर्थः; अथोत्तरार्धेनेाया अकरण उपायं दर्शयति-आत्मानमेव-स्वमेवापुण्य-निष्पुण्यं किं नाऽवैषि ? - न जानासि, निष्पुण्यत्व-पराभवयोः साहचर्यात्, वाऽथवा पुण्यमेव-सुकृतमेव किं न हि तनोषि ? - न कुरुषे, अत्रोत्तरार्धस्थ एवकार उक्तिद्वये योज्यः ||१०.९।।