SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ ૧૬૭ वैराग्योपदेशद्वारम् [२५२] गुण-स्तुतीर्वाञ्छसि निर्गुणोऽपि, सुख-प्रतिष्ठादि विनापि पुण्यम् । अष्टाङ्गयोगं च विनाऽपि सिद्धीर् वातूलता काऽपि नवा तवात्मन् ! ||१०.८।। धनवि.-अथानन्तरमुक्तं 'धर्मं विना दुःखक्षयो न भवति'इति, तेन तदुपरि निदर्शनत्रयदर्शनद्वारेण तमेवार्थं समर्थयन्नुपदिशति-गुण-स्तुतीः इति, हे आत्मन ! • त्वं निर्गुणोऽपि-तथाविधज्ञानादिगुणरहितोऽपि गुण-स्तुती-स्वगुणप्रशंसाः वाञ्छसिइच्छसि, च पुनः पुण्यं विना-सुकृतमन्तरेण सुख-प्रतिष्ठादि वाञ्छसीति, अत्र सुखं च सुधन-धान्य-पुत्र-कलत्राऽऽदिप्राप्तिजनितं, प्रतिष्ठा च श्रेष्ठित्व-प्रधानत्वनरनायकत्वादिरूपा, ते आदौ-प्रथमे यत्र तत् तथा, आदिपदात् स्वर्गाऽपवर्गादिपरिग्रहः; च पुनर् - अष्टाङ्गयोगं विनाऽपि सिद्धीर्वाञ्छसीत्यन्वयः; अत्र योगस्याष्टावङ्गानि १-यम २-नियम ३-करण ४-प्राणायाम ५-प्रत्याहार ६-धारणा ७-ध्यान ८-समाधि-नामानि । [२५३] व्रतादान १-अहिंसा २-सूनृता ३-ऽस्तेय, ४-ब्रह्मा-५-ऽऽकिञ्चनता यमाः-इत्यादिनाममाला(अभि.८१) पाठतः स्पष्टार्थानि, सिद्धयश्चाष्टधा - [२५४] "१-लघिमा २-वशिते ३-शित्वं ४-प्राकाम्यं ५-महमा ६-ऽणिमा । यत्र ७-कामावसायित्वं, प्राप्तिरैश्वर्यमष्टधा ।।१।। [अभि.२०२] इत्यादिना प्रतिपादिताः; तेन कारणेन तव वातूलता-वातविकृतिजन्या संज्ञारहितता ग्रथिलतेत्यर्थः कापि अवक्तव्या नवा-अपूर्वा आश्चर्यकारिणी वर्त्तते; अत्रायं भावो-यथा गुणान् विना स्तुतिर्न भवति, यथा पुण्यं विना सुखप्रतिष्ठादि न भवति, यथाऽष्टाङ्गयोगं विना सिद्धयो न भवन्ति, तथा धर्म विना दुःखक्षयो न भवतीति दृष्टान्त-दार्टान्तिकयोजनेति ।।१०.८ ।।
SR No.022283
Book TitleAdhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2016
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy