SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ १६६ श्रीअध्यात्मकल्पद्रुमे वो यदा मुञ्चति तदा १. बादरद्रव्यपुद्गलपरावर्त्तः, एतेषां सप्तानां मध्यादेकेन केनचिद् रूपेण सर्वान् पुद्गलान् परिणमय्य यदा मुञ्चति तदा २. सूक्ष्मद्रव्यपुद्गलपरावर्त्तः, ३. सर्वलोकाकाशप्रदेशानेक एव जीवो मरणैर्यथा तथा स्पृशति तदा बादरक्षेत्र पुद्गलपरावर्त्तः ४. सर्वलोकाकाशप्रदेशाननुक्रमेण मरणैः स्पृशति, तदा सूक्ष्मक्षेत्रपुद्गलपरावर्त्तः, ५. उत्सर्पिणीकालस्य सर्वान् समयान् यथा तथा मरणैः स्पृशति तदा बादरकालपुद्गलपरावर्त्तः ६. अनुक्रमेण यदा स्पृशति तदा सूक्ष्मकालपुद्गलपरावतः सर्वाण्यसङ्ख्याताध्यवसायस्थानानि क्रमेणोत्क्रमेण चैको जीवो मरणेन स्पृशति तदा ७. बादरभावपुद्गलपरावर्त्तः सूक्ष्मो भावपुद्गलपरावर्त्तसु कश्चिज्जन्तुः सर्वजघन्ये कषायोदयरूपेऽध्यवसायस्थाने मृतस्ततो यदि स एवानन्तेऽपि काले गते सति प्रथमादनन्तरे द्वितीयेऽध्यवसायस्थाने वर्त्तमानो म्रियते तदा तन्मरणं गण्यते, न शेषाण्यनुक्रमभावीन्यपि मरणानि, एवं क्रमेण सर्वाण्यप्यनुभाग-बन्धाऽध्यवसायस्थानानि यावता मरणेन स्पृष्टानि स्युस्तावान् ८. काल इति अत्र क्षेत्रसूक्ष्मपुद्गलपरावर्त्तेनाधिकारः, शेषाः सर्वे प्रकाराः प्ररूपणामात्रमिति ।।१०.७।। रत्न:1. - अथात्मानं प्रति धर्मस्यावसरं ज्ञापयन्नाह . धर्मस्यावसरोऽस्ति इति व्याख्या - हे जीव ! तवायं संप्रति अधुना धर्मस्यावसरः आयातोऽस्ति, कैः ? - द्रव्य क्षेत्र - काल - भावभेदैश्चतुर्भिरपि पुद्गलपरावर्तैःअनन्तोत्सर्पिण्यवसर्पिण्यात्मककालविशेषैः, तव किं कुर्वतः सतः ? प्रसहतः सतः-प्रकर्षेण सहमानस्य सतः कानि प्रति, किंलक्षणानि ? अनन्तानि, पुनरिति विशेषे, अयमवसरः स्वल्पान्यहानि - दिनानि यस्य स स्वल्पाहः, च पुनरतिशयेन दुर्लभो-दुर्लभतमो वर्त्तते, धर्मस्यावसरः स्वल्पदिनो 'दुष्प्रापतमश्च भवतीति, ततश्चास्मिन्नवसरे 'आर्हतं धर्मं कर्त्तुं यतस्व - उद्यमं कुरु, हि यतः कारणात् तेतवेमं-आर्हतं धर्मं विना, हे आत्मन् ! - कर्हिचित्-कदाचिद् दुःखानामेकविंशतिप्रभेदानां क्षयं - आत्यन्तिकी निवृत्तिर्नास्तीति ।।१०.७ ।। १. दुर्लभ० मु० । २. 'यतस्वाऽऽर्हतं' मूलत्वेन पाठः ।
SR No.022283
Book TitleAdhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2016
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy