________________
वैराग्योपदेशद्वारम् [२४८] धर्मस्यावसरोऽस्ति पुद्गलपरावर्तेरनन्तैस्तवा-ऽऽ
यातः संप्रति जीव ! हे प्रसहतो दुःखान्यनन्तान्ययम् । स्वल्पाहः पुनरेष दुर्लभतमश्चास्मिन् यतस्वाऽर्हतो,
धर्मं कर्तुमिमं विना हि न हि ते दुःखक्षयः कर्हिचित् ||१०.७।। धनवि.-अथानन्तरोपदिष्टमेवार्थं विशेषत उपदिशति-'धर्मस्य' इति हे जीव! - हे आत्मन् ! अनन्तानि-अतीतकालापेक्षयाऽन्तरहितानि दुःखानि प्रसिद्धानि प्रसहतः-प्रकर्षेण सहमानस्य तव, संप्रति-वर्त्तमानभवे, अनन्तैः अतीतकालापेक्षयाऽन्तरहितैः, पुद्गलपरावतः-जैनागमप्रसिद्धैः सुबहुकालविशेषैर्धर्मस्य-जैनधर्मस्य, अयं-प्रत्यक्षोऽनुभूयमानोऽवसरस्-प्रस्तावः स्वल्पाह-स्तोकदिन आयातः-समागतोऽस्ति, च पुनरेष धर्मावसरः पुनर्द्वितीयवारं दुर्लभतमः-दशभिर्दृष्टान्तैरतिशयेन दुष्प्रापोऽस्ति, इत्यस्मिन्नवसरेऽर्हतो-जिनस्य धर्मं कर्तुं, यतस्व-उद्यमं कुरुष्व; हि यतः कारणादिम जिनधर्मं विना ते-तव दुःखक्षय-सकलसांसारिकदुःखविनाशः कर्हिचित्-कदाचिद् न ह्यस्ति; अत्रानन्तस्वरूपं च चतुर्थषडशीतिकनामककर्मग्रन्था-ऽऽदिभ्योऽवसेयं, ग्रन्थगौरवभयाच्च नोक्तमिति; पुद्गलपरावर्त्तस्त्वनन्तोत्सर्पिण्यवसप्पिणी - प्रमाणः कालः, तत्स्वरूपसूचककर्मग्रन्थशतकोक्तं गाथात्रयं चेदम्, [२४९] "दव्वे १ खित्ते २ काले ३ भावे ४ चउह दुह बायरो सुहुमो ।
होइ अणंतुस्सप्पिणिपरिमाणो पुग्गलपरट्टो [८६] [२५०] उरलाइसत्तगेणं एगजिओ मुयइ फुसिय सव्वअणू ।
जत्तियकालि स थूलो दव्वो सुहुमो सगन्नयरा [८७] [२५१] लोगपएसोसप्पणिसमया अणुभागबंधठाणा य ।
जह-तह कममरणेणं पुट्ठा खित्ताइ थूलियरा [८८] १ एतस्य गाथात्रयस्यायं समुदायार्थ संक्षेपतो-यथा १-द्रव्य २-क्षेत्र ३-काल ४-भावभेदैश्चतुर्दा पुद्गलपरावर्त्तः, १-औदारिक २-वैक्रिय ३-तैजस ४-भाषा ५-श्वासोच्छ्वास ६-मनः ७-कार्मण ८-रूपतया सर्वपुद्गलान् परिणमय्य परिणमय्यैको