________________
१६४
श्रीअध्यात्मकल्पद्रुमे ___ धनवि.-'परभवे लघुता भवित्री'त्यनन्तरमुक्तम्, सा च परभवे लघुता परभवे एव धर्मसाधनादिना विनिवारिता भविष्यतीति किं सांप्रतं संभावितभयगर्भोपदेशेन ? इत्याशङ्कायामुपदिशति -
'वेत्सि' इति अधुना-वर्त्तमानसमये धर्मस्य-यतिधर्मस्य श्राद्धधर्मस्य वा स्वरूपं च-धर्मस्य क्षान्त्यादिदशप्रकारं, फलं च-धर्मस्य स्वर्गापवर्गादि, साधनं च-धर्मस्य "चत्तारि परमंगाणि'[उत्तराध्ययनसूत्रम्]इत्यादि प्रतिपादितरूपं, बाधनं च-धर्मस्य प्रमादरूपम् ततो द्वन्द्वः, तानि त्वं वेत्सि-जानासि, तथा च पुनस्त्वमधुना स्ववश:स्वाधीनः सन् तं धर्मं कर्तुं प्रभवसि-समर्थो भवसि, हे मतिमन् ! - पण्डित ! इति हेतोः, तस्मिन्-धर्मेऽधुना-वर्तमानसमये त्वं यतस्व-यत्नं कुर्वित्यर्थः; हि-यतो अमुत्रभवान्तरे नरकादिलक्षणे त्वया करणभूतेन न हि किञ्चित् परलोकसाधनादिकं सेत्स्यति-सिद्धिं यास्यति, वा-अथवा अमुत्र त्वया कर्तृभूतेन किञ्चिद् धर्मस्य स्वरूपफलादि वस्तु न हि भोत्स्यते-ज्ञास्यते इति, तस्मादत्रैव भवे यत्नं कुरुष्वेत्यर्थः ||१०.६।।
रत्न.-अथात्मानमिह भवे एव धर्मार्थं प्रेरयन्नाह - ..
वेत्सि स्वरूप०..इति. व्याख्या-हे आत्मन ! धर्मस्य तत्त्वतो जिनधर्मस्येत्यर्थः, अपरेषां धर्माभासत्वात्, स्वरूपं-लक्षणं फलं-स्वर्गापवर्गावाप्त्यादि, साधनं-कारणं मनुजजन्म-धर्मश्रवण-श्रद्धान-वीर्यस्फोरण-पञ्चेन्द्रियपटुत्वादि तथा बाधनंअनार्यदेशोत्पत्ति-पञ्चेन्द्रियापटुत्व-कुकुलोत्पत्यादि, द्वन्द्वसमासे, तानि प्रति त्वं वेत्सि-जानासि चतुरत्वादिति, च पुनस्त्वं तं धर्मं कर्तुं प्रभवसि-प्रभुभवसि-समर्थो भवसि । त्वं किलक्षणः ? - स्वस्य वशः स्ववशः स्वायत्त इत्यर्थः, हे मतिमन ! तस्मिन् धर्मे यतस्व-यत्नं कुरु, कथम ? - अधुना-इह भवे, हि यस्मात् कारणात्, अमुत्र परभवे त्वया हि निश्चितं किञ्चित्-किमपि नहि सेत्स्यतिन निष्पत्स्यते, वा पुनर्न-भोत्स्यते-न ज्ञास्यते इति, पारतन्त्र्याद् वीर्याभावाद् ज्ञानाभावाच्च किमपि कर्तुं न शक्यते इति ।।१०.६ ।।
१. धर्मे - मु० ।