________________
वैराग्योपदेशद्वारम् धन-धान्य-वस्त्र-पात्र-घृतप्राप्तिरूपा वा आमीषध्यादिका वा यस्य स तथेति, च पुनरहं नृपो-नराधीशोऽस्मि, च पुनरहं दाता-दानशौण्डोऽस्मि, च पुनर्, अहमद्भुतगुणोऽस्मि, अद्भुता-आश्चर्यकारिणो गुणा ज्ञान-विज्ञानादयो यस्य स तथा, च पुनरहं गरीयान्-अतिशयेन गुरुः-महानस्मि, इत्याद्यहङ्कृतिवशाद्-इतिअनन्तरोक्ताः प्रकारास्ते आदौ-प्रथमं यत्र सा चासावहङ्कृतिश्च-अहङ्कारस्तद्वशात्तद्वशत्वात्, तदायत्तत्वादित्यर्थो भावप्रधान-निर्देशः, परितोष-संतोषमेषि-प्राप्नोषीत्यर्थः; परं परभवे-अग्रेतनभवे भवित्री-भविष्यन्ती लघुतां-लाघवं किं न वेत्सि ? - किं न जानासि अत एवोक्तं योगशास्त्रे[२४६] "जाति-लाभ-कुलैश्वर्य-बलरूप-तपः-श्रुतैः ।
कुर्वन् मदं पुनस्तानि, हीनानि लभते जनः [३३९] इति रत्न.-अथाहङ्कृतिनिराकृतिविषये उपदिशति -
विद्वानहम्-इति. व्याख्या-हे आत्मन्नहं विद्वानस्मि, पण्डितोऽस्मि अस्मीति सर्वत्र 'ज्ञेयम्, सर्वत्र चकारोऽनुक्तोऽपि समुच्चयार्थो गृह्यते, तेन च पुनः सकला-अष्टाविंशतिभेदा लब्धयो यस्य सोऽहं, तथा नृपोऽहं-राजा अहं, दातादानी, तथा अद्भुता गुणा दुष्कालोद्धरणादिका औदार्य - धैर्यादिका वा यस्य सोऽहं, तथा अहमतिशयेन गुरुर्गरीयान्-अतिमहानित्यर्थः, हे आत्मन् ! त्वमित्याद्यहङ्कृतिवशाद्-अहङ्कारवशतः परितोषं-संतोषमेषि-प्राप्नोषि, परमेतन्मदवशात् परस्मिन् भवे भवित्री-भाविनी लघुतां किं न वेत्सि ? - किं न जानासीति काकूक्त्या जीवं प्रति प्रश्नः, 'यविषयकाहङ्कृतिस्तद्विषया परत्र लघुता भाविनी' इति जानाहीत्यर्थः ।।१०.५।। [२४७] वेत्सि स्वरूप-फल-साधन-बाधनानि,
धर्मस्य तं प्रभवसि स्ववशश्च कर्तुम् | तस्मिन् यतस्व मतिमन्नधुनेत्यमुत्र,
किञ्चित् त्वया हि न हि सेत्स्यति भोत्स्यते वा ||१०.६।। १. योज्यं - मु० ।