________________
१६२
श्रीअध्यात्मकल्पद्रु
त्वं परमार्थदृशा-तत्त्वदृष्ट्या पश्य - विलोकय विचारयेत्यर्थः; अत्र विलोक्येतिगम्यं, तेनेति विलोक्य, त धर्मलक्षणं पदार्थम् - आशु शीघ्रं, विशदै: - निष्कलङ्कुश्चरितैःसमाचरणै रञ्जय-स्ववशीकुर्वित्यर्थः, यो धर्मो भवाब्धौ संसारसागरे पतन्तं- निमज्जन्तम् अबलं-दानादिपुण्यशम्बलबलरहितं त्वां परिपातुं त्रातुमीष्टे-समर्थो भवति, यदुक्तम्
"दुर्गतौ प्रपतत्प्राणिधारणाद् धर्म उच्यते" [ ] इति, अत्र ईष्टे इति ईशिक् ऐश्वर्ये [है.धा. १११६] इत्यस्य प्रयोग इति ।। १०.४ ।।
रत्न.–अर्थ पररञ्जनाय प्रवृत्तमात्मानमुपदिशति - कस्ते निरञ्जनः इति., व्याख्याहे धीमन् ! - हे बुद्धिमन्, निर्गतमञ्जनम् - अक्तिरर्थाल्लेपो यस्य स निरञ्जनः, तस्य संबोधने हे निरञ्जन ! आत्मनो रूपाभावान्निरञ्जनत्वमिति, चिरं चिरकालं जनानां-लोकानां रञ्जनेन - रागोत्पादनेन ते तव को गुणोऽस्ति ? - अपि तु न कोऽपि गुणोऽस्ति, इति त्वं परमार्थदृशा- परमार्थो - मोक्षः, तस्मिन् दृग्-ज्ञानं, तया तत्त्वज्ञानेनेत्यर्थः पश्य विलोकय, विलोक्य च पररञ्जनं विमुच्य, तं रञ्जयविशदैः-निर्मलैर्दोषरहितैरित्यर्थः, चरितैः- 'चरित्रैः कथं ? रागीकुरु, कैः ? आशु-शीघ्रं, तं कमित्याह-यस्त्वां भवाब्धौ - भवसमुद्रे पतन्तं परिपातुं - रक्षितुमीष्टे - ईशो भवति, समर्थो भवतीत्यर्थः त्वां किलक्षणं ? - अबलं बलरहितं निरर्थकेन पररञ्जनेन किमिति ?, केवलं जगदीश्वरमथवा तद्भाषितधर्मं रञ्जयेति भावः ।।१०.४।।
-
-
[२४५] विद्वानहं सकललब्धिरहं नृपोऽहं, दाताऽहमद्भुतगुणोऽहमहं गरीयान् । इत्याद्यहङ्कृतिवशात् परितोषमेषि,
नो वेत्सि किं परभवे लघुतां भवित्रीम् ? ।।१०.५ । ।
-
धनवि . - ननु जनरञ्जनेन पाण्डित्यख्यात्यादिलक्षणो गुणः स्यादेवेति कथमनन्तरमुक्तं 'जनरञ्जनेन को गुणः स्याद् इत्याशङ्कायामुपदिशति -
'विद्वानम्' इति अहं- मल्लक्षणो जनो, वेत्तीति विद्वान्- पण्डितोऽस्मि, च पुनर् अहं सकललब्धिरस्मि सकलाः- समस्ता लब्धयः- पण्डितपदादिप्राप्तिरूपा १. अथापर० मु० । २. आचरितैः मु० ।