SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ १६१ वैराग्योपदेशद्वारम् तत्-तस्माद् यथाहिताप्ति-हिताप्तिमनतिक्रम्य यथासुखं, किं न चेष्टसे ? . किं न यतसे इत्यन्वयः, अत्रायं भावः-सर्वमात्मायत्तं वर्त्तते, न तु दैवायत्तं, तथा च किं न यतसे ? ||१०.३।। । . रत्न.-अथ सर्वमात्मायत्तं प्ररूप्यात्मानं हिताप्तौ प्रेरयन्नाह - त्वमेव मोग्धा..इति., व्याख्या-हे आत्मन् ! त्वमेव मोग्धा-मौढ़र्य प्राप्ता, तथा मनिता-ज्ञाता त्वमेव, तथा एष्टा-वाञ्छिता अनेष्टा-अवाञ्छिताऽपि त्वमेव, कयोः? - सुख-दुःखयोः, सुखस्यैष्टा दुःखस्यानेष्टेत्यर्थः, तयोः सुख-दुःखयोर्दाता-दायकः त्वमेव जीवं प्रति पोषणादिना सुखस्य, जीवं प्रति हननादिना दुःखस्येत्यर्थः, तयोश्च सुख-दुःखयोर्भोक्ता त्वमेव, तत्कारणाद् यथाहिताप्ति-हिताप्तिमनतिक्रम्य यथाहिताप्ति किं न चेष्टसे ? - उद्यम किं न कुरुषे, यथा हिताप्तिः हितप्राप्तिः [इत्यर्थः] स्यात्, तदा हिताप्तिरिति पाठः ।।१०.३।। [२४४] कस्ते निरञ्जन ! चिरं जनरञ्जनेन ?, धीमन् ! गुणोऽस्ति ? परमार्थदृशेति पश्य । तं रञ्जयाशु विशदैश्चरितैर्भवाब्धी, यस्त्वां पतन्तमबलं परिपातुमिष्टे ||१०.४।। धनवि.-अथान्यजनरञ्जनोद्यतमात्मानमुपदिशति - 'कस्ते' इति हे निरञ्जन ! - हे निर्लेप ! सम्यक्त्वतत्त्वेन विरतिमत्त्वेन च मिथ्यात्वा-ऽविरतिरूपाऽञ्जन-रहितत्वादिति संबोधनं, भाविसिद्धत्वावस्थायां सकलकर्मरूप-पापाऽञ्जनरहितत्वाद् भाव्यवस्थयेति वा संबोधनं, हे धीमन् ! धीः-हिताहितपरिज्ञानं, साऽस्यास्तीति तथेति संबोधनं, अत्र कोमलवचनसंबोधनपदद्वयेनामन्त्रणं धर्मोपदेशश्रवणं प्रति श्रोतुराभिमुख्यापादनार्थं, कोमलवचनेनामन्त्रितो हि श्रोता प्रसन्नचित्तः सम्यक् श्रोतुं प्रवर्तते, चिरं-चिरकालम्, आबाल्याद् आवार्द्धक्यकालं यावज्जनरञ्जनेन-मलिनाम्बरधरण-मधुरभाषण-मन्त्र-तन्त्रयन्त्रौषधादिकरणैर्जनमनोवशीकरणेन ते-तवात्मनः कः ? - किंप्रकारोऽणुर्वा महान् वा गुण-तात्त्विकोपकाररूपोऽस्ति-विद्यते इति अमुना प्रकारेणानन्तरमत्रैवोक्तम्,
SR No.022283
Book TitleAdhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2016
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy