________________
१६०
श्रीअध्यात्मकल्पद्रुमे आलम्बनं तव इति., व्याख्या-हे आत्मन् ! अष्टादशनिमेषप्रमाणः कालः काष्ठा, काष्ठाद्वयं लव-कालविशेषो भवति, लव आदौ येषां ते लवादयः, आदिशब्दात् कलालेशघटिकादीनां ग्रहणं, लवादय एव कुठाराणां घाताः-प्रहारा यावत् तव जीविततरूं-आयुर्वृक्षं न छिन्दन्ति हि निश्चितं, किंलक्षणं ? - आलम्बनम्-आधारं संसारस्थितये इत्यर्थः, तावत् परिणामहिताय-परिणामे हितं कर्तुं यतस्व-उद्यमं कुरु, अस्मिन् जीविततरौ छिन्ने सति अस्य जीविततरोः पल्लवनायेति गम्यं, क्व कदा कथं मन्त्रो भविता ?, क इति-किनामा क्वेति कस्मिन् काले भरतादिक्षेत्रे वा, कथमिति-केन प्रकारेण, कियवर्णानुपूर्वीक इति, अपि तु न भवितेत्यर्थः, जीविततरुर्लवादिकुठारघातैश्छिन्नः संश्छिन्न एवेति ।।१०.२ ।। [२४२] त्वमेव मोग्धा मनिता त्वमात्म
ष्टाऽप्यनेष्टा सुख-दुःखयोस्त्वम् | दाता च भोक्ता च तयोस्त्वमेव,
तच्चेष्टसे किं न यथा हिताप्तिः ? ||१०.३।। धनवि.-अनन्तरमुक्तं 'परिणामहिताय यतस्व'इति, स च यत्नो दैवायत्त इति कस्तत्र परिणामहिते यतते ? इत्याशङ्कायामुपदिशति -
'त्वमेव' इति हे आत्मन ! - त्वमेव मोग्धा-मुह्यतीति मोग्धा, अज्ञाताऽसीत्यर्थः, च पुनस्त्वमेव मनिता-मन्यते जानातीति मनिता, ज्ञाताऽसीत्यर्थः, च पुनः सुखदुःखयोः प्रतीतयोः, एष्टा-वाञ्छाकर्ता, च पुनर् अनेष्टाऽपि-द्वेष्टाऽपि त्वमेवासि, एतावता सुखस्यैष्टा दुःखस्य द्वेष्टाऽपि त्वमेव वर्तसे इत्यर्थः, अत्रैष्टेति ईषदिच्छायामित्यस्य तृच्प्रत्यये साधु, च पुनस्तयोः सुखदुःखयोर्दाता-दायकः च पुनर्भोक्ता-अनुभविता त्वमेवासि, यदुक्तम् - [उत्तराध्ययने] [२४३] अप्पा नई वेअरणी, अप्पा मे कूडसामली ।
अप्पा कामदुधा घेणू, अप्पा मे नंदणं वणं ।। [७१६] ।। अप्पा कत्ता विकत्ता य[ ]इति, १. मन्त्र इतिपाठः मूलत्वेनापि गृहीतः, यत्नो इति मु० ।