________________
वैराग्योपदेशद्वारम्
१५९ कामक्रीडां करोषीत्यर्थः, तथा त्वं कुतुकैः-कुतूहलैः, अशङ्को-गतशङ्कः खेलसि, तथा कुतुकैरशङ्कः किं कामान् खेलसीत्येकमेव वाक्यं, परं त्वं मृत्युमेव रक्षोराक्षसं लघु-शीघ्रमभ्यापतत्-संमुखमागच्छद्, विभावय-विचारय, किं चिकीर्षु ? - चिक्षिप्सु-प्रक्षेप्तुमिच्छु, कं ? - त्वां प्रति, कस्मिन् ? - घोरो-भीषणो नरक एवावटो-'गतः, तस्य कोटरं-मध्यभागः तस्मिन्, तेन मदादीनि मा कार्षीरिति, रक्षःशब्दो नपुंसकस्तेन मृत्युरक्ष इति जातम् ।।१०.१ ।। [२४१] आलम्बनं तव लवादिकुठारघाताश्
छिन्दन्ति जीविततकं न हि यावदात्मन् ! ।
तावद् यतस्व परिणामहिताय तस्मिंश्- ?
छिन्ने हि कः क्व च ? कथं भविताऽस्यतन्त्रः ? ||१०.२।। धनवि.-अथानन्तरोक्तमृत्युभयविभावनया किं कर्त्तव्यम् ? इत्याशङ्कायां कर्त्तव्यमुपदिशति -
'आलम्बनं तव' इति हे आत्मन् ! तवालम्बनम्-आधारं लवादिकुठारघाता "अष्टादश निमेषाः स्युः, काष्ठा काष्ठाद्वयं लव" इति [अभि० चिन्ता० १३६] वचनाल्लवः कालविशेषः, स आदौ येषां ते लवादयः, त एव कुठाराः, तेषां घाताः-प्रहाराः, ते-तव जीविततरुम्-आयुर्लक्षणं वृक्षं यावद्-यावत्कालं न हि छिन्दन्ति-छिदिक्रियाविषयं न कुर्वन्ति, अत्रादिपदात् प्रहर-दिना-ऽहोरात्रादिपरिग्रहः, तावत्-जीविततरुच्छेदात् पूर्वकाले परिणामहिताय-आयतिहितार्थं तपः-संयमादौ यतस्व-यत्नं कुरुष्वेति, अत्र तपः-संयमाविति गम्यम; हि-यतः कारणात तस्मिनजीविततरौ छिन्ने-छिदिक्रियाविषयीकृते अतन्त्रः-अस्वायत्तः परवशः सन्, कः ? • किंनामा नारकादिः, पुनः क्व-कुत्र नरकादिगतौ च पुनः कथं-केन प्रकारेण निराधारो भविताऽसि ? - भविष्यसीति ।।१०.२।।
रत्न.-अथायुषि सत्येव जीवस्य हितप्रवृत्तावुपदिशन्नाह -
१. गर्भः - मु० । 'गर्त्त-श्वभ्रा-ऽवटाऽगाध' इति अभि. चि. १३६४ ।