________________
१०. वैराग्योपदेशाधिकार:
[२४०] किं जीव ! माद्यसि हसस्ययमीहसेऽर्थान्,
कामांश्च खेलसि तथा कुतुकैरशङ्कः ? | चिक्षिप्सु घोरनरकावटकोटरे त्वा
मभ्यापतल्लघु विभावय मृत्युरक्षः ||१०.१।। धनवि.-अथानन्तरोक्तो मनोनिरोधो वैराग्याधीनो भवतीत्यवसरायातं सामान्यतो वैराग्योपदेशद्वारमुपदर्शयन्नाह-अथ सामान्यतो वैराग्यधर्मोपदेशः इति, सुगम् ।
तत्रापि प्रायः सांप्रतीनजनानां दुःखगर्भवैराग्यं भवतीति सकलदुःखमुख्यं मरणभयं दर्शयन्नुपदिशति -
'किं जीव' इति हे जीव ! - हे प्राणिन् ! अयं मानसप्रत्यक्षसिद्धः त्वं, किं माद्यसि ? - मदं गच्छसीति, च पुनः किं हससि ? - किं हास्यं कुरुषे, च पुनः किम् अर्थान्-धन-कनकादीन् ईहसे ? - वाञ्छसि, च पुनः कामान्कान्तालिङ्गनादीन् शब्दादीन् वा किम् ईहसे ? - वाञ्छसि, च पुनर् अशङ्कः सन्-निर्भयः सन्, कुतुकैः-कुतूहलजनकै तादिभिस्तथा-तेन प्रकारेण त्वं खेलसिरमसे, यथा-येन प्रकारेण घोरनरकावटकोटरे-भयङ्करनरकगतिगत्तैकदेशशुषिरप्रदेशे चिक्षिप्सु-क्षेप्तुमिच्छु त्वां-भवन्तं प्रति लघु-शीघ्रम् अभ्यापतद्-अभिमुखमागच्छत्, मृत्युरक्षो-मरणलक्षणराक्षसं विभावय-विचिन्तयेति, अत्र रक्षःशब्दो नपुंसकलिङ्गे राक्षसवाचीति ||१०.१।।
रत्न.-अथ सामान्यतो वैराग्यशुद्धिधर्मोपदेशाख्यो दशमोऽधिकारो विवरीतुं प्रारभ्यते । तत्रादौ जीवं प्रति मृत्योर्भयं दर्शयति-किं जीव ! माद्यसि..इति., व्याख्या-हे जीव ! त्वं किं माद्यसि ? - जात्याद्यष्टमदमत्तो भवसि, अपि तु मा माद्य, किमिति प्रश्नार्थकमव्ययं काकूक्तिसूचकं सर्वत्र योज्यं, तथा किं हससि, तथाऽयं त्वं किमर्थान्-हिरण्यादिद्रव्याणि ईहसे ? - वाञ्छसि, च पुनरर्थे सर्वत्र प्रथमं वाक्यं विना योजनीयः, त्वं किं कामान् खेलसि ?